पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५२

पुटमेतत् सुपुष्टितम्
२६
[तत्वविवेक
 

 परस्परविरोधिनीं शुद्धसत्त्वप्रधाना मलिनसत्त्वप्रधाना तमःप्रधानेति भिन्नतया भासमानां त्रितयीमपि त्रिप्रकारिकां तां प्रकृतिं मुक्त्वा महावाक्येन तत्त्वमसीति वाक्येनाखण्डं सच्चिदानन्दं भेदत्रयविरहितं शुद्धबुद्धमुक्तस्वभावं ब्रह्म लक्ष्यते वाक्यस्य लक्ष्यं भवति । अधिष्ठानपरित्यागे तत्कृतभेदनाशः ; तन्नाशेऽधि- ष्टातुरैक्यमेव शिष्यत इति भावः ॥ ४६ ॥

 एवं भागपरित्यागेन वाक्यार्थकल्पने दृष्टान्तमाह, स इति ।

सोऽयमित्यादिवाक्येषु विरोधात्तदिदन्तयोः।
त्यागेन भागयोरेक आश्रयो लक्ष्यते यथा ॥ ४७ ॥

 यथा सोऽयमित्यादिवाक्येपु सोऽयं देवदत्त इत्यादिषु स देवदत्तो ह्ययमेवेत्यन्वये कर्तव्ये तच्छब्देन यः पूर्वस्मिन्काले कस्मिम्श्चित्स्थले तावद्वयस्को देवदत्ताख्यः परोक्षः पुरुष उच्यते, इदंशब्देन अस्मिन्समये अत्रैतावद्वयस्कः प्रत्यक्षेण ग्राह्य इत्यादिवाक्येषु तदिदन्तयोः तत्पदार्थं विशेषणतया भासमानस्य तद्देशवृत्तित्वादेरिदंपदार्थविशेषणतया भासमानस्यैवैतद्देशवृत्तित्रादेश्च विरोधात् परस्परभेदादसीति पदबोधितमैक्यमनुपपन्नमित्यनुपपत्तिमूलकलक्षणामहिम्ना भागयोर्विरुद्धविशेषणांशयोस्त्यागेनैक आश्रयोऽवशिष्टा एका देवदत्तरूपा व्यक्तिर्यथा लक्ष्यते जहदजहल्लक्षणया बुध्यते ॥ ४७ ॥

 तथैव तत्त्वमसीति महावाक्ये परित्याज्यपरिग्राह्यांशौ विशदयति, मायेति ।

मायाऽविद्ये विहायैवमुपाधी परजीवयोः ।
अखण्डं सच्चिदानन्दं परब्रह्मैव लक्ष्यते ॥ ४८ ॥

 एवं परजीवयोः परः शुद्धसत्त्वप्रधानमायाप्रतिबिम्बितत्वेन निमित्तभूता, तम:प्रधानमायाप्रतिबिम्बितत्वेनोपादानभूता च या चित् , तद्रूप ईश्वर:, जीवः कामकर्मदूषितमलिनसत्त्वप्रधानामविद्यामाश्रित्य जीवस्वरूपेण प्रतीयमानः तयोरुपाधी विशेषणीभूते मायाऽविद्ये बिहाय अखण्डं भेदतयशून्यमवशिष्टं सच्चिदानन्दं परं ब्रह्मैव लक्ष्यते ॥ ४४ ॥