पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५३

पुटमेतत् सुपुष्टितम्
प्रकरणम्।]
२७
कल्याणपीयूषव्याख्यासमेता।

 अभिधा लक्षणा व्यञ्जनेति च त्रिप्रकारिका अर्धबोधिका वृत्तिः । तत्र पुनर्लक्षणावृत्तिस्त्रिविधा १. जहत्स्वार्था । २. अजहत्स्वार्था. ३. जहदजहत्स्वार्था- चेति । यत्र मुख्यार्थस्य बाधे सति बोधिते अर्थान्तरे मुख्यार्धस्य सर्वथा त्यागस्तत्र जहत्स्वार्था, यथा गङ्गायां घोष इत्यत्र प्रवाहे ग्रामस्य स्थितेरसम्भवाद्गङ्गाशब्दस्य तीरे लक्षणा आश्रीयते । मुख्यार्थमपरिहाय यत्रान्यार्धोपि गृह्यते तत्राऽजहत्स्वर्था । यथा काकेभ्यो दधि रक्ष्यतामित्यत्र काकशब्देन काकमपरिहाय दध्युपघातुकमार्जा- लादयोऽपि गृह्यन्ते । पदार्थैकदेशमपहायांशांतरं यत्र गृह्यते तत्र जहदजहत्स्वार्था यथा सोऽयं देवदत्त इत्यत्र मुख्यार्थैकदेशविशेषणांशपरित्यागेन भागान्तरस्य परित्रह इतिदिक् ।। ४८ ॥

अत्रपूर्वपक्षनिरास:

 ननु लक्ष्यार्थस्सर्वोऽपि लक्ष्यतावच्छेदकधर्मवैशिष्टयेनैव बुध्यत इत्यनुभवः। धर्मविशिष्टमवस्त्वित्यौपनिषदानां सिद्धान्तः । एवं स्थिते ब्रह्म लक्ष्यत इति कथमुच्यत इति शङ्कते, सविकल्पस्येति ।

सविकल्पस्य लक्ष्यत्वे लक्ष्यस्य स्यादवस्तुता ।
निर्विकल्पस्य लक्ष्यत्वं न दृष्टं न च सम्भवि ॥ ४६॥

 सविकल्पस्य विकल्पेन विपरीतत्वेन कल्पितेन नामरूपादिधर्मेण सह वर्तत इति सविकल्पो धर्मविशिष्टः ; तादृशस्य लक्ष्यत्वे वाक्यलक्ष्यत्वाङ्गीकारे लक्ष्यस्य परब्रह्मणोऽवस्तुता स्यात् । सधर्मकत्वप्रसङ्गेन मिथ्या स्यात्, सधर्मकस्य वस्तुनस्सिद्धान्तरीत्या मिथ्यात्वाभ्युपगमादिति भावः । परं ब्रह्मैव लक्ष्यत इत्युक्तिस्तु सर्वथा असङ्गतेत्याह, निर्विकल्पेति । निर्विकल्पस्य नामरूपादिधर्मर्शून्यस्य लक्ष्यत्वं लक्षणावृत्या बोध्यत्वं न च दृष्टं न हि लोके कुत्रापि व्यवहारसिद्धम् । व्यवहारे अदर्शनमात्रमेव न, युक्त्यापि साधयितुं न शक्यमित्याह, न सम्भवीति । निर्विकल्पस्य लक्ष्यत्वं युक्त्या न सिद्ध्यति ।। ४९ ॥

 सिद्धान्तापरिज्ञानेनेद्भावितां शङ्कामग्रे तत्प्रख्यापनेनैव परिजिहीर्षु: प्रथमं वैतण्डिकतामवलम्ब्य तदुक्तशङ्काया एव नावकाश इंति प्रतिपक्षिणमाक्षिपति, विकल्पेति ।