पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५४

पुटमेतत् सुपुष्टितम्
२८
[तत्वविवेक
पञ्चदशी

विकल्पो निर्विकल्पस्य सविकल्पस्य वा भवेत् ।
आद्ये व्याहतिरन्यत्रानवस्थाऽत्माश्रयादयः ॥ ५० ॥

 विकल्पो महावाक्यार्थस्य लक्ष्यत्वं वा । भवेदिति पूर्वपक्षिणा कृतो यो विकल्पस्स निर्विकल्पंस्य सविकल्पस्य वा भवेत्? आद्ये तावद्व्याहतिः स्ववचनव्याघातः ; विकल्परहितस्य विकल्पासम्भवात् । अन्यत्र सविकल्पस्य विकल्प इति पक्षे अनवस्थात्माश्रयादयः । तत्र विशेषणीभूतविकल्पात् विधेयभूतो विकल्पो भिन्नोऽभिन्नो वा ? अभिन्नत्वे विधेयस्य अज्ञातत्वनियमेन तस्यैव विशेणत्वे विशेषणस्याज्ञनाद्विशेषणविशिष्टस्य उद्देश्यस्य ज्ञानं न सम्भवति ; विशिष्टज्ञानस्य विशेषणज्ञानपूर्वकत्वनियमात् । एवं च आत्माश्रयाद्विकल्पविशिष्टस्य विकल्प इति वाक्यस्य अबोधकत्वप्रसङ्गः । यदि विशेषणीभूतविकल्पात् विधेयभूतो विकल्पो भिन्न इत्युच्यते तदा विशेषणीभूतविकल्पस्सविकल्पकस्य निर्विकल्पकस्य वेति विकल्पे, तत्र विकल्पस्य प्रथमविकल्पात्मकत्वेऽन्योन्याश्रयः द्वितीयविकल्पात्मकत्वे आत्माश्रयः । तस्यापि विकल्पान्तरापेक्षत्वे तस्यापि विकल्पस्य विकल्पान्तरापेक्षत्वमित्यादिक्रमेणानवस्था । अतस्त्वदुक्तो विकल्प अयुक्त एवेति भावः ॥ ५० ॥

 न केवलमत्रैवेयमनुपपत्तिः किन्तु नैय्यायिकानां पदांर्थविभागेऽपि दृश्यत इत्याह, इदमिति ।

इदं गुणक्रियाजातिद्रव्यसम्बन्धवस्तुषु ।
समं तेन स्वरूपस्य सर्वमेतदितीष्यताम् ॥ ५१ ॥ ।

 इदं विकल्पनिराकरणं गुणक्रियाजातिद्रव्यसंबंधवस्तुषु तद्रूपेषु वस्तुषु सममेव । तथाहि गुणः किं गुणवति निर्गुणे वा ? क्रिया तद्वति तद्रहिते वा ? द्वितीये स्ववचनव्याघातः । प्रथमे पूर्ववत्स्वाश्रयादिदोषापत्तिरित्यर्थः । एवं वितण्डया पूर्वपक्षस्यानुपपत्तिं प्रदर्शये स्वमतानुसारेणोत्तरमाह , तेनेति । तेन विकल्पस्यासङ्गतत्वेनैतत्सर्वं गुणक्रियादयो धर्मास्सर्वेऽपि स्वरूपस्य वस्तुनो नामरूपात्मकस्य न तु परमार्थवस्तुन इतीष्यताम् । परमार्थवस्तुनो गुणक्रियारूपादिरहितत्वात्तस्य भेदकल्पनाया असङ्गतिः। नामरूपविशिष्टस्यानेकतया प्रतीयमानस्यास्य जगत ।