पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५९

पुटमेतत् सुपुष्टितम्
प्रकरणम्।]
३३
कल्याणपीयूषव्याख्यासमेता।

भासिते परोक्षतया समाध्यवगते तत्वे तत्त्वमसीति वाक्यमप्रतिबद्धं सत् पूर्वकर्मवासनाद्यवरोधकरहितं करामलकवत् करगतमामलकमिवापरोक्षं साक्षात्काररूपं बोधं प्रसूयते जनयति ॥ ६१, ६२ ॥

परोक्षापरोक्षज्ञानफलम् ।

 आद्य परोक्षज्ञानफलमाह, परोक्षमिति ।

परोक्षं ब्रह्मविज्ञानं शाब्दं देशिकपूर्वकम्।
बुद्धिपूर्वकृतं पापं कृत्स्नं दहति वह्निवत् ॥ ६३ ॥

 देशिकपूर्वकं देशिकः पूवों यस्य तत् गुरूपदिष्टमित्यर्थः । यत् शाब्दं तत्त्वमस्याद्युपनिषद्वाक्यैर्बोधितं अत एव परोक्षं ब्रह्मविज्ञानं बुद्धिपूर्वकृतं पापं पुण्यपापाख्यं कृत्स्नमशेषं कर्मसञ्चयं वह्निवद्दहति, यथा वह्नी रमणीयमरमणीयं वा वस्तु दहति तद्वदिति भावः ॥ ६३ ॥

 अथापरोक्षज्ञानफलमाह, अपरोक्षेति ।

अपरोक्षात्मविज्ञानं शाब्दं देशिकपूर्वकम्।।
संसारकारणाज्ञानतमसश्चण्डभास्करः ॥ ६४ ॥

 देशिकपूर्वकमाचार्योपदिष्टं शाब्दं तथाप्यपरोक्षं दशमस्तत्त्वमसीत्यादिवाक्यजन्यबोधे तत्त्वानुभवादपरोक्षात्म विज्ञानं आत्मनस्स्वरूपस्य विज्ञानं निष्कृष्टज्ञानं संसारकारणाज्ञानतमसः संसारस्य मिथ्याभूतस्य जगतः कारणं यदज्ञानमविद्यारूपं तदेव तमस्तमित्रं तस्य चण्डभास्करः तीक्ष्णकिरणस्सूर्य इव ध्वंसको भवति ॥ ६४ ॥

  ग्रंथादौ प्रतिज्ञातं तत्त्वविवेचनं फलानुवादपूर्वकमुपसंहरति, इत्थमिति ।

इत्थं तत्त्वविवेकं विधाय विधिवन्मनस्समाधाय।
विगळितसंसृतिबन्धं प्राप्नोति परं पदं नरो न चिरात् ॥ ६५॥

5