पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/६१

पुटमेतत् सुपुष्टितम्

अथ

कल्याणपीयूषव्याख्यासमेता

पंचदशी


महाभूतविवेकप्रकरणम् ।


 प्रतिपादितं प्रथमे प्रकरणे तावदुत्तमबोधनसरण्या साधकस्यानुभवपूर्वकं सत्यज्ञानानन्दात्मकस्य साक्षिणोऽनाद्यविद्याप्रतिबन्धवशादभानम् पंचतन्मात्रगत- व्यष्टिसमष्टथात्मकसात्त्विकराजसांशसमुद्भूतस्य सप्तदशावयवोपेतस्य लिङ्गशरीरस्य सृष्टिमारभ्य पञ्चीकृततामसपंचतन्मात्रसम्भूतस्थूलभूतकार्यात्मकस्थूलशरीरसृष्टिपर्यन्तं मायागतचित्प्रतिबिम्बस्वरूपस्येश्वरस्याज्ञया कल्पितं कोशचतुष्टयमभिधेयं चाभि- हितम् । अनुवृत्तिव्यावृत्तिभ्यां पञ्चकोशविवेचनेन गुहानिहितस्य साक्षिणस्समाधा- वात्मसाक्षात्कारमार्गश्च दिङ्मूत्रेण प्रदर्शितः । कोशविवेकस्तु कोशस्वरूपपरिज्ञान- मन्तरा दुर्घट इत्याशयेन पञ्चकोशेषु चतुर्णा भूतमूलृकत्वेन मूलभूतभूतविवेकज्ञान मन्तरा भौतिकानां कोशानां विवेकस्य दुर्घटतया मूलभूतभूतविवेकं द्वितीये प्रपञ्चयति सदिति ।

सदद्वैतं श्रुतं यत्तत्पञ्चभूतविवेकतः ।
बोद्धुं शक्यं ततो भूतपञ्चकं प्रविविच्यते ॥ १॥


 सत् "सदित्यस्तितामात्रं वस्त्विन्द्रियागोचरं क्रियागुणरहितं सर्वगतमेकं निरंजनं निरवयवम् विज्ञानम् ।" अद्वैतं द्वितीयं वस्त्वन्तरं यस्य न विद्यते यथा । मृद्व्यतिरेकेण मृदोऽन्यद्धटाकारेण परिणमयितृकुलालादिनिमित्तकारणं दृष्टं तथा सद्व्यतिरेकेण सतस्सहकारिकारणं द्वितीयं वस्त्वन्तरं प्राप्तमनेन प्रतिषिध्यते । तदद्वितीयं यत् परं ब्रह्म श्रुतं "सदेवे सोम्येदमग्र आसीत् एकमेवाद्वितीयम्"