पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/६३

पुटमेतत् सुपुष्टितम्
प्रकरणम् ।]
३७
कल्याणपीयूषव्याख्यासमेता

उष्णस्पर्शः प्रभारूपं जले बुलबुलुध्वनिः ।
शीतस्पर्शश्शुक्लरूपं रसो माधुर्यमीरितः ॥ ४ ॥

 वह्नौ भुगुभुग्विति ज्वलने श्रूयमाणो ध्वनिः उष्णस्पर्शः, प्रभारूपं । एवं शब्स्पर्शरूपगुणात्मकं तेजः । तत्र स्वीयो गुणः प्रभारूपं कारणभूतवायुगुण संक्रमात् शब्दस्पर्शाविति गुणत्रयं वर्तते । एतेनाकाशस्य यस्स्वीयो गुणश्शब्दस्स कार्यभूतवायुद्वारा तत्कार्ये तेजस्यपि संक्रामतीत्यूह्यम्। एवमुत्तरत्रापि पूर्वपूर्वगुणसंक्रमो बोध्यः। जले बुलुबुलुध्वनिः शिलाशर्करसंकीर्णस्थले जलप्रवाहे श्रूयमाणो ध्वनिः शीतस्पर्शः शुक्लरूपं माधुर्य रसः मधुरभावो माधुर्यमिति चत्वारो गुणाः । तत्र माधुर्यं स्वीयो गुणः । इतरे पूर्वोक्तदिशा संक्रान्ता इति बोध्यम् ॥ ४ ॥

भूमौ कडकडाशब्दः काठिन्यं स्पर्श इष्यते ।
नीलादिकं चित्ररूपं मधुराम्लादिको रसः ॥ ५ ॥
सुरभीतरगंधौ द्वौ गुणास्सम्यग्विवेचिताः॥

 भूमौ पृथिव्यां कडकडेति शब्दः काठिन्यं कठिनस्य भावः स्पर्श इष्यते नीलादिकं आदिशब्देन पीतरक्तहरितकपिशादीनि गृह्यन्ते । चित्ररूपं, मधुराम्लादिकः, आदिशब्देन लवणकटुकषायतिक्ताः एवं षड्विघो रसः सुरभिश्च तदितर असुरभिश्चेति गन्धौ द्वौ । एवं शब्दस्पर्शरूपरसगन्धा इति पञ्चगुणास्तिष्ठन्ति, तत्र गन्धस्स्वीयः इतरे संक्रान्ताः । एवं पञ्चगुणास्वीयत्वेन संक्रान्तत्वेन च यत्र यत्र ये ये सन्ति तद्विभागः प्रदर्शित इति सम्यग्विवेचिता इत्यनेन स्फुटीकृतम् ॥ ५ ॥

ज्ञानेन्द्रियतत्स्थाननिरूपणम् ।

 शब्दादिपञ्चकग्राहकेन्द्रियाणि तत्स्थानानि तद्व्यापारांश्चाह, श्रोत्रमिति

श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं चेन्द्रियपञ्चकम् ॥ ६॥
कर्णादिगोळकस्थं तच्छब्दादिग्राहकं क्रमात् ।
सौक्ष्म्यात्कार्यानुमेयं तत्प्रायो धावेद्वहिर्मुखम् ॥ ७ ॥