पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/६५

पुटमेतत् सुपुष्टितम्
प्रकरणम् ।]
३९
कल्याणपीयूषव्याख्यासमेता

पञ्चोक्तयादानगमनविसर्गानन्दकाः क्रियाः।
कृषिवाणिज्यसेवाद्याः पञ्चस्वन्तर्भवन्ति हि ॥ १० ॥

 उक्त्यादानगमनविसर्गानन्दकाः उक्तिर्वचनं आदानं ग्रहणं विसर्गो मूत्रपुरीषविसर्जनं आनन्दकः विषयानन्दश्चेति पञ्च वाक्पाणिपादपायूपस्थानां क्रिया भवन्ति क्रियान्तराणामपि सत्वात्पञ्चत्वोक्तिरसङ्गतेत्यत आह । कृषीति । कृषि- वाणिज्यसेवाद्या इतराः क्रियाः पञ्चसूक्त्यादिष्वन्तर्भवन्ति हीति निश्चयार्थे ॥ १० ॥

कर्मेन्द्रियतत्स्थाननिरूपणम् ।

 अनन्तरं कर्मेन्द्रियाणि तत्स्थानानि चोच्यन्ते वागिति ।

वाक्पाणिपादपायूपस्थैरक्षैस्तत्क्रियाजनिः ।
मुखादिगोळकेष्वास्तेतत्कर्मेन्द्रियपञ्चकम् ॥ ११ ॥

 स्पष्टोऽर्थः अक्षैरिन्द्रियैः तत्क्रियाजनि:। उक्तयादिक्रियाणामुत्पत्तिः ॥ ११ ॥

मनसःसर्वेन्द्रियाध्यक्षत्वकथनम्।

 मनसस्स्थानमाह, मन इंति ।

मनो दशेन्द्रियाध्यक्षं हृत्पद्मे गोळके स्थितम् ।
तच्चान्त:करणं बाह्येष्वस्वातन्त्र्याद्विनेन्द्रियैः ॥ १२॥

 दशाध्यक्षं कर्मज्ञानेन्द्रियाणामध्यक्षं मनः एतेन मनस इन्द्रियप्रेरणं व्यापार इत्युक्तं भवति । हृत्पद्मे गोळके स्थितं एतेन हृत्पद्मगोळकं तस्य स्थानमित्युक्तं भवति । मनसोऽन्तरिन्द्रियत्वं सनिमित्तकमाह तच्चेति । इन्द्रियैर्विना तेषां सहकारमन्तरा बाह्येषु विषयेष्वस्वातन्त्र्यम् तस्मान्मनः अन्तःकरणमन्तरिन्द्रियमित्युच्यते। विषयग्रहणेऽस्य असाधारणकारणत्वात्करणत्वं चेति भावः ॥ १२ ॥

 ननु रूपादिज्ञानजनने चक्षुरादीनां पर्याप्तत्वेन तदतिरिक्तं मनः किमित्य- भ्युपेयमित्याशंक्याह, अक्ष इति ।