पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/६७

पुटमेतत् सुपुष्टितम्
प्रकरणम्।]
४१
कल्यांणपीयूषव्याख्यासमेता

 अनन्तरमन्तःकरणादीनां स्वामिनमाह, अत्रेति ।

अत्राहंप्रत्ययी कर्तेत्येवं लोके व्यवस्थितिः॥ १६ ॥

 अत्र अन्तःकरणादिविषये अहंप्रत्ययी अहमिति यो ज्ञानवान् स एव कर्ता भवतीति लोके व्यवस्थितिः व्यवस्था अहंवृत्तिविशिष्टो ह्यात्मा कर्ता भवतीत्यर्थः। एतेन प्रकृत्यादीनां कर्तृत्वं वदन्तस्सांख्यादयः परास्ताः ॥ १६ ॥

इन्द्रियाणांभौतिकत्वनिरूपणम् ।

 जगतो भौतिकत्वज्ञानोपायमाह, स्पष्टेतेि ।

स्पष्टशब्दादियुक्तेषु भौतिकत्वमतिस्फुटम् ।
अक्षादावपि तच्छास्त्रयुक्तिभ्यामवधार्यताम् ॥ १७ ॥

 स्पष्टशब्दादियुक्तेषु स्पष्टैश्शब्दादिगुणैर्युक्तेषु पृथिव्यादिषु भौतिकत्वं भृतकार्यत्वमतिस्फुटं विस्पष्टमेव । तथैवाक्षादावपीन्द्रियादिषु आदिशब्देन मनस्तद्विकाराश्चोक्ताः तेषु तद्भौतिकत्वं शात्रयुक्तिभ्यामवधार्यतां निश्चीयताम् । “अन्नमयं हि सोम्य मनः, आपोमयः प्राणस्तेजोमयी वागित्यादि (छां.६.५.४.) शास्त्रम् । युक्तिश्च तत्तदिन्द्रियं तत्तद्भूतजन्यं तत्तद्भूतगुणग्राहकत्वात् येनेन्द्रियेण यो भूतगुणो गृह्यते तत्तद्भूतजन्यमिति व्याप्तेः ॥ १७॥

"सदेवसोम्येति ” श्रुत्यर्थविचारः ।

 एवं भूतानि भौतिकानि च प्रदर्श्य "सदेव सोम्येदमिति" “ (छां.६. २.१.) सर्वस्यापि जगतस्तदूघटकेदंशब्दार्थत्वमाह, एकादशेति ।

एकादशेन्द्रियैर्युक्तया शास्त्रेणाप्यवगम्यते ।
यावत्किंचिद्भवेदेतदिदंशब्दोदितं जगत् ॥ १८ ॥

 एकादशेन्द्रियैर्ज्ञानकर्मेन्द्रियपञ्चके मनश्च तैः प्रत्यक्षेण युक्त्या अनुमानेन शास्त्रेण श्रुत्या: च याव्रत्किंचिदवगम्यते एतत्सर्वमिदंशब्दोदितं “ सदेव सोम्ये- दमग्र आसा” दित्यत्रेदंशब्देन अभिहितं भवेत् ॥ १८ ॥

6