निरुक्तां श्रुतिमर्थतः पठति, इदमिति ।
इदं सर्वं पुरा सृष्टेरेकमेवाद्वितीयकम् । |
सृष्टेः पुरा इदं सर्वं नामरूपक्रियात्मकतया परिदृश्यमानं सर्वं जगत् एकं स्वोत्पादकावयवविधुरसन्मात्रात्मकम् ।” एव सजातीयभेदरहितं अद्वितीयकं सद्व्यतिरेकेण सहकारिकारणं वस्त्वन्तरं यस्य न विद्यते तत् सदस्तितामात्रं । सूक्ष्मवस्त्वासीत् । ननु तदानीन्तनस्य वस्तुरूपस्य तद्वाचकस्य सदितिशब्दस्य च सत्त्वप्रसंग इत्याशंकां निराकरोति नामेति सृष्टेः प्राक् सदेवासीत् नामरूपे न आस्तां न विद्येते "अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणीति (छां.६.३.२)श्रुतेः।इत्यारुणेररुणस्यापत्यं पुमानारुणिरुद्दालकः तस्य वचः अनूचानमानिनं पुत्रम् प्रत्युपदेशः ॥ १९ ॥
अन्यत्र दृष्टस्य भेदत्रयस्य सद्वस्तुनोऽपि दृष्टान्तवशात्प्रसक्तस्य निवृत्ति- रेकमेवाद्वितीयमिति पदत्रयेण क्रियत इति श्रुत्याशयं विवृणोति वृक्षेत्यादिद्वाभ्याम् ।
वृक्षस्य स्वगतो भेदः पत्रपुष्पफलादिभिः । |
वृक्षस्य पत्रपुष्पफलादिभिः स्वावयवैः स्वगतो भेदो भवति वृक्षान्तरात्तज्जातिगतवृक्षान्तराद्भेदस्सजातीयः शिलादितः शिलादिजात्यन्तरवस्त्वादेर्विजातीयो भेदः । यथा वृक्षादिषु भेदत्रयमुपलभ्यते तथा सद्वस्तुनः प्राप्तम् नामरूपासंख्येयाकारैरापादितं भेदत्रयं सजातीयविजातीयस्वगतरूपमैक्यावधारणद्वैतप्रतिषेधेः ऐक्यमेकत्वम् अवधारणमेवार्थः द्वैतस्य अन्यवस्तुनः प्रतिषेधः । निषेधः तैस्त्रिभिरेकमेवाद्वितीयमिति शब्दत्रयेण क्रमात् स्वगतसजातीयविजातीयभेदराहित्यबोधकेन निवार्यते ॥ २१ ॥