पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/७२

पुटमेतत् सुपुष्टितम्
४६
[महाभूतविवेक
पञ्चदशी

भगवत्पूज्यपादाश्च शुष्कतर्कपटूनमून् ।
आहुर्माध्यमिकान्भ्रान्तानचिन्त्येऽस्मिन् सदात्मनि ॥३०॥

 भगवत्पूज्यपादाश्च शुष्कतर्कपटून् शुष्कः प्रमाणविधुरश्चासौ तर्को युक्तिवादः तस्मिन् पटून् दक्षानमून् माध्यमिकान् बौद्धनामवान्तरशाखीयान् अचिन्त्ये मनसोऽगोचरे सदात्मनि सत्स्वरूपे ह्यात्मनि भ्रान्तान् विप्रतिपन्नानाहुः। शिष्यैरवश्यं कर्तव्ययोर्योगाचारयोः प्रथमस्याकरणाद्द्वितीयस्याङ्गीकरणान्माध्यमिका इति प्रसिद्धिः॥३०॥

 पूज्यपादवाक्यं पठति अनादृत्येति ।

अनादृत्य श्रुतिं मौर्ख्यादिमे बौद्धास्तमस्विनः।
आपेदिरे निरात्मत्वमनुमानैकचक्षुषः ॥३१॥

 तमस्विनः तमः अयथार्थज्ञानमेषामस्तीति तमस्विन इमे बौद्धाः मौर्ख्यात् श्रुतिं ‘सदेव सोम्येदमग्र आसी"दित्यादि (छां-६.२.१.) श्रुतिमनादृत्य अप्रमाणीकृत्य अनुमानैकचक्षुषोऽनुमानमेव मुख्यप्रमाणत्वेनांगीकुर्वन्त इति हेतुगर्भविशेषणम्। असच्छब्दस्य शून्यार्थतां प्रकल्प्य निरात्मत्वमात्माभावमेव आपेदिरे अवाप्नुवन्॥३१॥

शून्यवादनिरासः ।

 श्लोकद्वयेन तावदिदानीमसद्वादं विकल्प्य सोदाहरणं निराकरोति, शून्यमिति ।

शून्यमासीदितिब्रूषे सद्योगं वा सदात्मताम्।
शून्यस्य न तदूयुक्तमुभयं व्याहतत्वतः ॥३२॥
न युक्तस्तमसा सूर्यो नापि चासौ तमोमयः ।
सच्छून्ययोर्विरोधित्वाच्छून्यमासीत्कथं वद ॥ ३३ ॥

 शून्यमासीदिति वाक्येन शून्यस्य सद्योगं सत्तायोगं संबंधं आहोस्वि त्सदात्मतां सत आत्मतां तादात्म्यं ब्रूषे ब्रवीषीति शून्यवादिनं प्रति प्रश्नः।