पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/७८

पुटमेतत् सुपुष्टितम्
५२
[महाभूतविवेक
पञ्चदशी

सदूबुद्धिरपि चेन्नास्ति मास्त्वस्य स्वप्रभत्वतः।
निर्मनस्कत्वसाक्षित्वात्सन्मात्रं सुगमं नृणाम् ॥ ४५ ॥

 सद्बुद्धिरपि नास्तीतिचेन्माऽस्तु । इष्टमेवैतदस्माकमिति भावः। कुतः ? सद्वस्तुनो बुद्ध्यगोचरत्वात् । तथा सति तस्य भानं कथमित्यत आह, अस्येति । अस्य सद्वस्तुनः स्वप्रभत्वतस्स्वयंप्रकाशत्वात् प्रकाशान्तरानपेक्षत्वात् निर्मनस्कत्व साक्षित्वात् सर्वसंकल्पशून्यमेतावत्कालं निर्विकल्प एवासमिति परामर्शानुमित- सर्वसंकल्पाभावविषयकसद्रूपभानान्नृणां निश्चितानां नामरूपरहितं सन्मात्रं वस्तु सुगमं सुखेन ज्ञेयं भवति । ४५ ॥

 एवं समाधावनुभवपूर्वकं सद्वस्तुसत्तां संस्थाप्य सृष्टेः प्रागपि तां साधयति । मन इति ।

मनोजृम्भणराहित्ये यथा साक्षी निराकुलाः।
मायाजृम्भणतः पूर्वं सत्तथैव निराकुलम् ॥ ४६ ॥

 मनोञृम्भणराहित्ये मनसो जृम्भणं प्रमातृत्वादिवृत्त्युन्मुखता तस्या राहित्यमभावः तस्मिन्निष्प्रपंचे मनसि यथा साक्षी प्रत्यगात्मा निराकुलः निर्गत सर्वचितविक्षेपनिमित्तः स्फुरति । तथैव मायाजृम्भणतो मायायाः सृष्टथात्मकव्यापारात्पूर्वं सत् परं ब्रह्म निराकुलं निश्चलं भाति ॥ ४३ ॥

मायास्वरूपानरूपणम् ।

 किं लक्षणेयं माया ? यया सर्वमिदं जगत्कल्पितमित्यत आह, निस्तत्वेति ।

निस्तत्वा कार्यगम्यास्य शक्तिर्मायाऽग्निशक्तिवत् ।
न हि शक्तिः क्वचित्कैश्चिदूबुध्यते कार्यतः पुरा ॥ ४७॥

 अस्य सतश्शक्तिर्मायेत्युच्यते, सा निस्तत्वा यधार्थस्वरूपविधुरा । ननु यधार्थस्वरूपाभावे तस्या अभाव एव स्यादित्यत आह । सा विद्यत एव । तर्हि कथमवगम्यते? अग्निशक्तिवत् स्फोटादिकार्यलिंगेन यथाऽग्निशक्त्तिरनुमीयते, तथैव