पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/७९

पुटमेतत् सुपुष्टितम्
प्रकरणम्।]
५३
कल्याणपीयूषव्याख्यासमेता

सा कार्यगम्या वियदादिकार्येण गम्याऽनुमेया । सद्वस्तु मायाशक्तिमत् वियदादिकार्यजनकत्वात् अग्निवदित्यर्थः । यदि विद्यते प्रत्यक्षेण किं न दृश्यते ? इत्यत आह। शक्तिः कचिद्यदा कदापि कैश्चिदपि कार्यतः पुरा प्राक्कार्योत्पत्तेः न बुदूध्यते न ज्ञायते । स्वतः सद्वस्तु न वियदादेः कारणम् । तस्य निष्क्रियत्वात् । “निष्कलं निष्क्रियं शान्तं निरवधं निरञ्जनम् " इत्यादिश्रुतेः। (श्वेत. ३. १९) अतो मायेति काचिच्छक्तिरवश्यमभ्युपगन्तव्या । सा च यथार्थस्वरूपविरहितेति भावः ।। ४७ ॥

 मायाया निस्तत्वस्वरूपविवक्षया तत्र पक्षद्वयमुत्थापयति, सार्थश्लोकेन,नेति

न सद्वस्तु सतः शक्तिर्नहि वह्ने: खशक्तिता ।
सद्विलक्षणतायां तु शक्तेः किं तत्त्वमुच्यताम् ॥
शून्यत्वमिति चेच्छून्यं मायाकार्यमितीरितम् ॥ ४८॥

 सतः शक्तिर्मायेति प्रतिज्ञातम् । तस्या मायात्वं विकल्प्य स्थापयति । तत्रायं विकल्प: । शक्तिः सतो भिन्ना अभिन्ना वा ? न द्वितीय इत्याह । नेति । सतः शक्तिः सद्वस्तु न । तत्रोपपत्तिमाह। न होति। वह्ने:स्वशक्तिता स्वस्यैव शक्तेराकारादेःस्वरूपता वह्निर्न भवति। तथाहि; मण्यादिसमवधाने वह्नेर्दाहानुदयात् । दाहानुकूला शक्तिः मण्यादिना नश्यतीति मीमांसका मन्यन्ते । यदि सा शक्तिर्वह्निरूपा शक्तिनाशो वह्निनाश इत्यायाति । न चेष्टापत्तिः। मणिसमवधानेपि रूपादिना वह्ने: प्रत्यक्षसिद्धत्वात् । अतो वह्निनिष्ठा दाहानुकूला शक्तिर्न वह्नि रूपेत्यवश्यमभ्युपगन्तव्यम्।एवं सन्निष्ठा शक्तिरपि न सद्रूपेत्यभ्युपेया। एवं मायाशक्तिर्न सद्रूपा। ननु सदभिन्नत्वनिराकरणे मायाया अभ्युपगमेन तदतिरिक्तायाः शक्तेरङ्गीकर्तव्यतया सद्वितीयत्वप्रसक्त्त्याऽद्वितीयत्वभंगः प्रसज्येतेत्यत आद्यम् पक्षम् निराकरोति, सदिति । सद्विलक्षणतायां सतो बिभिन्नतायां तु शब्दः पक्षान्तरद्योतनार्थः शक्तेः किं तत्त्वं किं तस्याः स्वरूपं, सद्भिनं शून्यात्मकमुतान्यद्वस्तु उच्यताम् । सद्भिन्नं शून्यात्मकमिति कल्पेऽनुपपत्तिं दर्शयति । शून्यत्वमिति ।