पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/८३

पुटमेतत् सुपुष्टितम्
प्रकरणम्।]
५७
कल्याणपीयूषव्याख्यासमेता।

 स परमात्मा भूमिं जगद्विश्वतः समन्ततो वृत्वा दशाङ्गुलमत्यतिष्ठत् तदतिरिच्यातिष्ठत् । नात्र दशशब्द: केवलदशत्वसंख्यावाचकः । किं तु जगदपेक्षया तस्य भूयस्त्वबोघनपर एवेति श्वेताश्वरश्रुतिः (३.१४.) न परब्रह्म विकारावर्ति च विकाराः सूर्यमंडलादयः । तेष्ववर्ति न तावन्मात्रपरिच्छिन्नः। अत्र अस्मिन् विषये श्रुतिसूत्रकृतोर्वच ।श्रुतेर्वच: पूर्वार्धे उक्तम् । सूत्रकृतो वचस्तु “विकारावर्ति च तथा हि स्थितिमाहेति” (४.४.१९.) सूत्रे इति ॥ ५७ ॥

 मायायाः परब्रह्मैकदेशभाक्त्वकथनेन तस्य सावयवत्वप्राप्तिमाशंक्याह । निरंशइति ।

निरंशेऽप्यंशमारोप्य कृस्नेंशे वेति पृच्छतः।
तद्भाषयोत्तरं ब्रूते श्रुतिः श्रोतृहीतैषिणो ॥ ५८ ॥

 सुलभा पदयोजना। द्वैतभाषामाश्रित्य पृच्छतो मंदधियो विपयस्य सुगमतायै तयैव भाषयोत्तरमपि समाधीयत इति भावः ॥ ५८ ॥

 एवं समर्धिताया मायायाः प्रयोजनं सदृष्टान्तमाह, सदिति।

सत्तत्त्वमाश्रिता शक्तिः कल्पयेत्सति विक्रियाः।
वर्णा भित्तिगता भित्तौ चित्रं नानाविधं तथा ॥ ५९ ॥

 भित्तिगताः कुड्ये लिप्ता रक्तपीतादयो नानाविधमाकृतिविशेषम्। विक्रिया विविधतया क्रियन्त इयि विक्रियाः । स्थष्टमन्यत् ॥ ५९ ॥

आद्यविकारस्याकाशस्य विचारः ।

 मायाकल्पितेषु विकारेषु प्रथममाह, आद्य इति ।

आद्यो विकार आकाशः सोऽवकाशस्वरूपवान्।
आकाशोऽस्तीति स त्त्वमाकाशेऽप्यनुगच्छति ॥ ६० ॥

 मायया सद्वस्तुनि कल्पितानां विकाराणां मध्ये आद्यः प्रथमो विकार आकाशः। " आत्मन आकाशः संभूत” (तै. २.१) इति श्रुतेः । नामरूपसहि

8