पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/८४

पुटमेतत् सुपुष्टितम्
५८
[महाभूतविवेक
पञ्चदशी

तत्वमेव विकारत्वम् । सृष्टौ प्रथमकार्यस्याकाश इति नाम । सोऽवकाशस्वरूपवान् अवकाश एव तस्य स्वरूपम् । मूर्तद्रव्याणामवकाशदातृत्वात् । “ द्रव्यान्तरस्थितिप्रवेशयोग्यतासंपादको दैशिकः स चावकाशः”। आकाशस्य सत्कार्यत्वं सोपपत्तिकमाह । आकाशोऽस्तीति सत्त्वत्वं सत्तारूपो धर्म आकाशेऽप्यनुगच्छति । अध्यस्यत इति यावत् । सत आकाशेप्यनुस्यूतत्वात् ॥ ६० ॥

 आकाशे कार्यकारणधर्मौ विशदयति, एकेति ।

एकस्वभावं सत्तत्वमाकाशो द्विस्वभावकः ।
नावकाशः सति व्योम्नि स चैषोऽपि द्वयं स्थितम् ॥ ६१॥

 सत्तत्त्वं सद्भाव एकस्वभावं सत्तारूपैकधर्मकं । आकाशो द्विस्वभावकः । सति सद्वस्तुन्यवकाशो न विद्यते । व्योम्नि सन् सत्ता एषोप्यवकाशगुणश्च द्वयमपि स्थितम्। सत्कार्यत्वधर्मविशिष्टावकाशदातृत्वमाकाशस्य स्वरूपमित्युक्तं भवति । एवमाकाशवायुतेजोंबुभुवां पूर्वपूर्वस्योत्तरोत्तरकारणभूतत्वादुत्तरोत्तरस्मिन् पूर्वपूर्वकारणस्य गुणसंक्रमणमुत्तरग्रन्थे प्रदर्शितम् । प्रत्येकं तेषां स्वधर्माश्चापिहिताः।एवमेते क्रमशो द्वित्रिचतुःपंचषट्स्वभावका भवन्ति॥ ६१॥

 आकाशनिष्ठशब्दगुणमादायापि सदाकाशयोरेकद्विस्वभावत्वमेवेत्याह,यद्वेति।

यद्वा प्रतिध्वनिर्व्योम्नो गुणो नासौ सतीक्ष्यते।
व्योम्नि द्वौ सद्ध्वनी तेन सदेकं द्विगुणं वियत् ॥ ६२ ॥

 यद्वेति प्रकारान्तरेण वियतो द्वैगुण्यं दर्शयति । प्रतिध्वनिः शब्दो व्योम्नो गुणः । असौ प्रतिध्वनिः सति नेक्ष्यते व्योम्नि सद्ध्वनी सत्ता च ध्वनिश्च द्वौ गुणौ । तेन कारणेन सदेकमेकस्वभावकम् । वियद्द्विगुणं द्विस्वभावकम्। सत्कार्यत्वे सत्यवकाशदातृत्वं यद्वा शब्दगुणकत्वमाकाशस्य स्वरूपमिति संपन्नम्। शब्दगुणकमाकाशमिति न्यायनयप्रसिद्धमाकाशलक्षणं तु तस्य द्रव्येतरविभाजकधर्मप्रतिपादकमात्रं न तु तत्स्वरूपप्रदर्शकमित्यवधेयम् ॥६२॥