पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/९

पुटमेतत् सुपुष्टितम्

परिमाणो जीवो मतं गजदेहं कृत्स्नम् प्रवेष्टुं न प्रभवेत् । पिपीलिकादिदेहं प्रविशतः प्राचीनशरीरसमानप्रमाणतासंकोचोऽपि प्रसज्येत । न च यथा प्रदीपप्रभाविशेषः प्रपाप्रासादाद्युदरवर्तिसंकोचविकासवान् तथा जीवोऽपि तत्तच्छरीरेषु संकोचविकासवान् भवतीति शंकनीयम् । तथा सति प्रदीपवद्विकारित्वेनानित्यत्वप्राप्त्या कृतहानाकृताभ्यागमप्रसंगात् । इत्यादिदूषणं प्रदर्श्य स्वसिद्धान्तमेवं वर्णयन्ति । एतन्मते चिदचिदीश्वरभेदेन भोक्तृभोग्यनियामकभेदेन च त्रयः पदार्थाः । तत्र चिद्रूपो जीवो भोक्ता । अचिद्रूपं सर्वं विषयजातं भोग्यम् । व्यवस्थया तत्तत्कर्मानुसारेण भोगनियामक ईश्वरः । तत्र चिदीश्वरौ ज्ञानस्वरूपौ । ज्ञानगुणकौ च द्युमणिप्रभृतितेजोद्रव्यं प्रभारूपेणावतिष्ठमानं प्रभारूपगुणाश्रयीभूतमित्यनुभवात् ज्ञानरूपस्य ज्ञानाश्रयत्वमविरुद्धम् । ज्ञानस्य प्रभावत्स्वतो द्रव्यत्वेऽपि तच्छेषत्वनिबंधनो गुणत्वव्यवहारः । ज्ञानरूपस्येश्वरस्य ज्ञानगुणकत्वं श्रुतिषु प्रदर्शितम् । ईश्वरस्य चिदचिदात्मकस्सर्वोऽपि तच्छेषत्वेन तच्छरीरभूतः। शरीरशरीरिणोस्तादात्म्यस्य लोकेऽनुभूयमानत्वाच्छरीरभूतजीवादिविशिष्टं ब्रह्मतत्वमेकमेवेत्यभेदबोधकश्रुतीनां तात्पर्यम् । शरीरशरीरिणोर्ममेदं शरीरमिति व्यवहाराद्भेदोऽपि । ईश्वरो जगतः कर्ता, उपादानं च स च परमेश्वरो भक्तवत्सलस्तत्तदुपासकानुगुणभफलदानाय स्वलीलावशादर्चाविभवव्यूहसूक्ष्मांतर्यामिभेदेन पंचधाऽवतिष्ठते । उपासनाकर्मसमुच्चितेन विज्ञानेन परमकारुणिकः परमेश्वरो निजयाथाम्यानुभवानुगुणनिरवधिकानंदरूपं पुनरावृत्तिरहितं स्वपदं प्रयच्छति । एतदेव सर्ववेदसारभूतमिति एतन्मते जीवोऽणुः । भगवद्दासश्च। वेदोऽपौरुषेयः सिद्धार्थबोधकः स्वतः प्रमाणभूतः शब्दोऽपि प्रमाणम् । पांचरत्रस्यापि । प्रामाण्यम् । प्रपंचभेदस्सत्य इति ।

 माध्वा: पुनः । रामानुजाभ्युपगतं प्रायशोऽङ्गीकृत्य तदभ्युपगतं भेदाभेदपक्षं परस्परविरुद्धम् प्रतिक्षिपन्ति । स्वसिद्धान्तमप्येवं वर्णयन्ति । तत्वं द्विविधम् । स्वतंन्त्रम् परतंत्रं चेति । तत्र स्वतंत्रो भगवान् विष्णुः सर्वज्ञः अचिंत्यशक्तिः अनन्तकल्याणगुणपूर्णः । सर्ववेदान्तानां तदुत्कर्ष एव तात्पर्यम्। अस्वतन्त्रं महालक्ष्म्यादिसर्वमपि प्रपंचजातम् । तदपि भावाभवरूपेण द्विविधम् । भावरूपमपि चेतनाचेतनरूपेण द्विविधम् । चेतनमपि नित्यमुक्तं संसारयोगी चेति द्विविधम् । तत्र नित्यमुक्ता महालक्ष्मीः संसारयोगि च मुक्तामुक्तभेदेन द्विविधम् । तत्र ब्रह्मादयो मुक्ताः