समाधत्ते, छिद्रेति
छिद्रानुवृत्तिर्नेतीति पूर्वोक्तिरधुना त्वियम् । |
छिद्रानुवृत्तिरवकाशलक्षणस्वरूपस्यानुवृत्तिर्वायौ न विद्यत इति पूर्वोक्तिः। अधुनात्वियमुक्तिः । शब्दानुवृत्तिरेवाकाशगुणस्योक्ता। शब्दानुवृत्तिरेवोक्ता न तु स्वरूपानुवृत्तिः । तथा सति वचसो व्याहृतिर्विरोधः कुतः? पुराऽकाशस्य वस्तुविभाजकधर्मोऽवकाशो वायौ न विद्यते । एवमाकाशाद्वायुर्व्यावर्त्यत इत्युक्तम्; तथाऽपि शब्दात्मको वियद्गुणों वायावपि विद्यत इत्यधुनोक्तम्; नातस्तयोर्विरोध इति भावः ॥ ८२ ॥
ननु वाय्वादेः सद्वस्तुनि प्रविविच्यमाने वायोरपि यथाऽसत्वमुक्तं एवं मायावैलक्षण्येन मायायां पृथक्कृतायां वायोरमायामयत्वं प्राप्तमिति शंकते नन्विति ।
ननु सद्वस्तुपार्थक्यादसत्त्वं चेत्तदा कथम् । |
नन्विति प्रश्नार्थे । वायुः सद्वस्तुपार्थक्यात् सतो भिन्नत्वादसत्त्वं चत्तेद्वैलक्षण्यान्मिथ्येत्युच्यते चेत् । तथाऽव्यक्तमायावैषम्यादव्यक्ता इन्द्रियागोचरा या माया मिथ्याभूता तद्वैषम्यात् इन्द्रियगोचरत्वेन विलक्षणत्वात् अमायामयता मायास्वरूपाद्भिन्ना सत्यात्मिकेति यावत् कथं नो न स्यात् । इन्द्रियागोचरा माया। तद्भोचरो वायुरिति विलक्षणस्वभावात्तयोर्मेदे मिथ्याभूतमायाभिन्नममिथ्येव स्यादित्याक्षेपः ॥ ८३ ॥
परिहरति, निस्तत्वेति ।
निस्तत्त्वरूपतैवात्र मायात्वस्य प्रयोजिका । |