पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/९४

पुटमेतत् सुपुष्टितम्
६८
[महाभूतविवेक
पञ्चदशी

 पञ्चभूतानां न्यूनाधिकांशतां विवृणोति, वायोरिति ।

वायोर्दशांशतो न्यूनो वह्निर्वायौ प्रकल्पितः।
पुराणोक्तं तारतम्यं दशांशैर्भूतपञ्चके ॥ ८८ ॥

 स्पष्टः पूर्वार्धः। एवं भूतपञ्चके वियत्पवनतेजोंबुभूषु पूर्वापेक्षया परस्य दशांशैः न्यूनत्वरूपं तारतम्यं पुराणोक्तम् । भूतोत्पत्तावाकाशादिभ्यो वाय्वादयो यथाक्रमं दशांशतो न्यूनपरिमाणाः । पञ्जीकरणे यथापरिमाणं सामि विभज्य एकैकं भूतं भूतान्तराणामष्टमांशसंयोजनमिति संगच्छते ॥ ८८ ॥

 तेजोविवेचनार्थं तत्स्वरूपमाह, वंह्निरिति ।

वह्निरुष्णः प्रकाशात्मा पूर्वानुगतिरत्र च।
अस्ति वह्नि: स निस्तत्व: शब्दवान् स्पर्शवानपि ॥८९॥

 वह्निरुष्णः प्रकाशात्मा । अत्र च पूर्वानुगतिः पूर्वस्य कारणस्यानुगतिर्गृणानुसरणम् । यथा वायौ सन्मायाकाशधर्माः तथैवाग्रावपि । अस्ति वह्निरिति सद्धर्म स वह्निर्निस्तत्व इति मायाधर्मः । तथा शब्दवानित्याकाशधर्मः स्पर्शवानपि । स्पर्शो वायोर्धर्मः। एतेषां कारणगुणानां कार्ये वह्नावनुगतिरितिभावः॥८९॥

 कारणगुणानग्नौ प्रदर्श्य तत्र स्वीयमपि दर्शयति, सदिति ।

सन्मायाव्योमवाय्वंशैर्युक्तस्याग्नेर्निजो गुणः ।
रूपं तत्र सतः सर्वमन्यद्बुद्ध्या विविच्यताम् ॥ ९०॥

 सन्मायाव्योमवाय्वंशैर्युक्तस्याग्नेर्निजः स्वीयो गुणो रूपम् । तत्र तेषु गुणेषु सतोऽन्यत्सर्वं सद्भिन्नं समस्तधर्मजातं मिथ्येति बुध्द्था विविच्यतां पृथक्क्रियताम् । सतः पृथक्कृतावन्यस्य सर्वस्य निस्तत्वेन मिथ्यात्वं सम्यग्विचिन्तितं भवतीति भावः ॥ ९० ॥