पृष्ठम्:वेदान्तसारः.djvu/२७

पुटमेतत् सुपुष्टितम्

xxix

अन्या प्रकृतिरित्यर्थ:| एवं तत्त्वत्रयमुत्पत्तिरहितत्वेन समानमपि सर्वज्ञत्वासर्वज्ञत्वजडत्वादिभिर्धमैः परस्परविलक्षणमित्यर्थः । परमात्मनो बन्धाभाव उच्यते--अनन्तश्चेत्यादिना । वेिश्वशरीरकोऽपि परमात्मा सत्यकामत्वाद्यनन्तगुणाश्रयः ; अत एव निरपेक्षः । अतो जीववत् न फलाभिसन्धिपूर्वककर्तृत्वान् । अतो न तद्भोगार्थत्वं प्रकृतेरिति भावः ! एतादृशपरस्परवैलक्षण्यज्ञानस्य फलमाह -त्रयं यदेति | एतत् त्रिविधं तत्त्वं परस्परविलक्षणतया यदा जानाति तदा ब्रह्म भवति ; प्राकृतनामरूपप्रहणात् निरस्ततत्कृतभेदः ज्ञानैकाकारतया ब्रह्मसदृशो ब्रह्मपदवाच्यो भवतीत्यर्थः । प्रकारैक्ये च तत्ताव्यवहारो बहुशो दृष्टः, यथ्रा "सोऽयं व्रीहिः" इति । न त्वत्र ब्रह्माभेदे तात्पर्यम्, अत्रैव पूर्वे भेदस्य वर्णितत्वात्; * "भूयसां स्याद्बलीयस्त्वम्" इति न्यायेन भेदश्रुतीनां बलीयस्त्वात् । एवमादयः श्रुतयोऽवगन्तव्याः | तथोपबृंहणान्यपि---

"भूमिरापोऽनलो वायुः खं मनो बुद्धिरैव च ।
अट्टंकारं इतीयं में भिन्ना प्रकृतिरष्टधा ॥
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीबभूतां महाबाहो ययेदं धार्यते जगत् ॥"

अत्र भूम्यादिकमचित्तत्वं जीवाख्यं चित्तंत्वं तयोः शेषिभूतमीश्वरतत्त्वं चेति तत्त्वत्रयं तद्वैलक्षण्यं च निर्दिष्टम् | अत्र हि में इतेि चेतनाचेतनयोः शेषित्वेनात्मानं निर्दिशति भगवान् | अतः चेतनाचेतनयोः परत्वापरत्वाभ्यां परस्परवैलक्षण्यम् ; चेतनाचेतनयोः ईश्वरस्य च शेषत्वशेषित्वाभ्यां वैलक्षण्य- मभिधीयतं । तथा-

"यस्मात् क्षरमतीतोऽहमक्षरादपेि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ "