पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१००

एतत् पृष्ठम् परिष्कृतम् अस्ति

८६ वेदान्तसारटीका [ खण्डः ६ वत्स्वारोपाधिष्ठानम् । न च शुक्त्यादेरज्ञातत्वमस्ति जडत्वाच्चिन्मात्रनिष्ठस्वा- चिन्मात्रविषयत्वाच्चाज्ञानस्य । तदुक्तम् “यस्याज्ञानं भ्रमस्तस्य भ्रान्तः सम्यक् च वेत्ति सः । जडे न विद्यावेद्यत्वान्नातोऽज्ञानं जडाश्रयम् ॥“ ततश्व सत्यस्य वस्तुनो मिथ्यावस्तुसम्भेदावभासोऽध्यारोप इत्युक्तं भवति। एतेन चिज्जडयोः परस्परतादात्म्याध्यासे शून्यमेव जगतस्तत्त्वं स्यादध्य स्तस्य मिथ्यात्वादिति केषाञ्चिच्चोद्यं निरस्तम् भ्रमकाले परिस्फुरदंशस्य । मिथ्यात्वेऽप्यपरिस्फुरतोंऽशान्तरस्य विद्यमानत्वात्। तदुक्तमभियुक्तैः <dअध्यस्तमेव हि परिस्फुरति भ्रमेषु नान्यस्कथञ्चन परिस्फुरति भ्रमेषु । रज्जुत्वशुक्तिशकलसत्वमरुक्षितित्व- चन्द्रैकताप्रमृतिकानुपलम्भनेन ‘” इति, ‘किञ्चानृतद्वयमिहाध्यसितव्यमिष्टं स्याच्चेत्तदा भवति चोद्यमिदं स्वदीयम् । सत्यानृतात्मकमिदं मिथुनं मिथश्चे दध्यस्यते किमिति शून्यकथाप्रसङ्गः ॥’” इति च । तस्माद्युक्तमुक्तं वस्तु सच्चिदानन्दाद्वयं ब्रह्म तस्मिन्नज्ञानतत्कार्याखिलजड समूहस्यावस्तुनोऽध्यारोप इति ॥ अज्ञानं व्युत्पादयति--अज्ञानं त्विति । तुशब्दो मतान्तरेभ्यो वैशिष्ट्य- द्योतनार्थः। तमेव विशेषं दर्शयति-सदसद्भ्यामित्यादिना । ज्ञानविरोध्यज्ञान- मित्युक्ते ज्ञानप्रागभावे प्रसङ्गं व्युदस्यति—भावरूपमिति । उत्तरज्ञानवि रोधिपूर्वज्ञानव्युदासाय सदसद्यामनिर्वचनीयमिति । मिथ्याज्ञानव्युदसाय त्रिगुणात्मकमिति । यद्वा ज्ञानविरोधित्वं ज्ञानापनोद्यस्वं तदेवाज्ञानत्वमित्य- ज्ञानलक्षणम् । न च ब्रह्मात्मैकत्वज्ञानापनोद्यप्रपञ्चेऽतिव्याप्तिः । तस्याज्ञानो पादनकत्वेनाज्ञानानतिरेकात् । नाप्यज्ञानात्मसम्बन्धेऽतिव्याप्तिः । असङ्गस्व- भावस्य चिदात्मनोऽज्ञानसम्बन्धस्याज्ञानाधीनत्वात्तस्याप्यज्ञानात्मत्वोपपत्तेः । १. Cannot brace this verse; but the first line is quoted as a nyर्चya in Tottoodpa (a Com, on the /docrat) p. 179, and in the Lahongogasolgrod२. Subsepcs'r•ok¢ i. 36. ३. Idedi 33.