पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१०३

एतत् पृष्ठम् परिष्कृतम् अस्ति

खण्डः ६ ] विद्वन्मनोरञ्जनी ८९ लक्षण्याभिप्रायेण । न च भावाभावयोः परस्परप्रतिषेधेऽन्यतरविधि- नान्तरीयकत्वात्प्रकारान्तरानुपपत्तिरिति वाच्यम् । स्त्रीपुंप्रकृत्योः परस्परप्रति- स्पर्धिनोर्निषेधे तदन्यस्य नपुंसकस्येव भावाभावान्यस्याज्ञानस्योपपत्तेः । अथ तत्र प्रमाणान्तरेण तृतीया प्रकृतिरुपलभ्यत इति मतं तर्हीहाप्यस्ति प्रमाणं प्रतीतिबाधान्यथानुपपतिरिति सन्तोष्टव्यम् । वस्तुतस्तु नात्रा स्माकमत्यन्तमाग्रहोऽज्ञाने सर्वानुपपत्तेरलङ्कारत्वात् । तदुक्तम् ‘अविद्याया अविद्यात्वमिदमेव तु लक्षणम् । यत्प्रमाणासहिष्णुत्वमन्यथा वस्तु सा भवेत्” ॥ इति, सेयं भ्रान्तिर्निरालम्बा सर्वंन्यायविरोधिनी । सहते न विचारं सा तमो यद्वद्दिवाकरम्” ॥ इति च, इष्टसिद्धावपि “दुर्घटत्वं विद्यया भूषणं न तु दूषणम् । कथञ्चिद्धटमानत्वेऽविद्यात्वं दुर्घटं भवेत्” ॥ इति । तस्मात्सत्त्वेनासत्त्वेन सदसत्त्वेन वा सावयवनिरवयवोभयात्मकत्वेन वा भिन्नाभिन्नोभयरूपत्वेन वा निर्वक्तुमशक्यत्वेनानिर्वचनीयमज्ञानं सवितरि दिवान्धपरिकल्पितान्धकारवद्यत्किञ्चिदिति वदन्ति वृद्धा इति सिद्धम् । इदानीं यथानिरूपितमज्ञानमेव नास्तीति विवदमानं प्रतिबोधयितुं तत्रानुभवश्रुती प्रमाणयति-अहमज्ञ इत्यादिना । अनुभवस्यास्य ज्ञाना भावविपयत्वं प्रतिक्षिप्तम् । निर्विकल्पकघटितप्रतियोगिकस्य ज्ञानसामा- न्याभावस्य स्वात्मनि प्रत्यक्षायोग्यत्वाच्च । नच भावरूपमप्यज्ञानमात्मनि क्षयमने न ग्रहीतुं शक्यते तस्य ज्ञानविरोधिरत्वादिति वाच्यं स्वप्रकाश साक्षिचैतन्येन तस्य विरोधाभावात् । अन्तःकरणवृत्यैव तु विरोधादहमज्ञ इत्यहङ्कारगर्भस्य चोल्लेखस्य साक्षिप्रकाशिताज्ञानविषये स्फुटतरव्यवहार मात्रत्वाच्च न काचिदनुपपत्तिरिति भावः । देवस्य स्वयप्रकाशस्यात्मनः शक्तिं शक्तिवत्परतन्त्रां स्वगुणैः शुक्लादिभिः सत्त्वादिभिर्वा निगूढामालिङ्गितां ते ध्यानयोगानुगता अपश्यन्निति सम्बन्धः १. See परस्परविरोधे हि &c. in Jactms iii. २. Brih»ddroxyz %verted (page 57 ) verse 181, modified in second line. See Notes. ३. Noiler m®y@8¢d®h¢ iii. 66. ४. For other references to this work, see Vedantakalptary p. 511, and 7%u@ropr¢- negळ p. 225. The first line of the verse is found in Sove Schiza iv. (Kaivalya-ratna, p. 110).