पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१०५

एतत् पृष्ठम् परिष्कृतम् अस्ति

खण्डः ७ ] विद्वन्मनोरजनी ९१ प्रवाहस्य बीजाङ्करवन्नन्योन्याश्रय इति चेन्मैवं । क्रमभाव्यनेकबीजाङ्कुर- व्यक्तिवदनेकाज्ञानजीवव्यक्तीनां सर्वे प्रमाणाभावात् । ननु ‘‘सता सौम्य तदा सम्पन्नो भवति”, “‘तद्धेदं तर्ह्यव्याकृतमासीत्” इत्यादिश्रुतिभ्यः सुषुप्तिः प्रलययोर्जीवस्य परमात्मैकभावापत्तिश्रवणात्पुनः प्रबोधसर्गयोर्जीवभावा- पत्तेरवगम्यमानत्वाच्च तदा तद्विभागहेतोः संस्काररूपस्याज्ञानस्यापि कल्प्य- मानत्वात्कथं न बीजाङ्कुरन्यायः प्रामाणिक इति चेत्त त्किमिदानीं सुषुप्त्यादि काले जीवस्य जीवत्वं नास्तीति विवक्षितम् । हन्त तर्हि कृतनाशा- कृताभ्यागमप्रसङ्गो मुक्तानामपि संसारित्वप्रसङ्गश्च दुर्वारः स्यादविशेषात् । किञ्च सुषुस्यादावज्ञानसद्भावे तस्य ब्रह्माश्रितत्वप्रसङ्गोऽसद्भावे सुप्तानां पुनरनुत्थानप्रसङ्गः। ‘‘तै इह व्याघ्रो वा सिंहो वा’ इत्यादिसत्सम्पत्ति वाक्यशेषासङ्गतिप्रसङ्गश्चेत्यसमञ्जस मेतत् । अथाज्ञानजीवयोः स्वरूपेणैवा- नादितयाश्रयाश्रयिभावस्य नित्यसिद्धत्वान्नान्योन्याश्रय इति मतं तदपि न ब्रह्मण्यज्ञानाभावप्रसङ्गात् । नायमिष्टप्रसङ्गः ‘‘सोऽऽकामयत ”, “तदात्मनं स्वयमकुरुत’ इत्यादिश्रुतिभिर्ब्रह्मणि जगकारणे कामयितृत्वादेरज्ञानकार्यस्य भूयमाणत्वात् । न च दृष्टिगतपीतिम्नः शठं समारोपज्जीवगताज्ञानविक्षे- पस्य कामयितृत्वादेस्तद्विषये ब्रह्मणि समारोपः श्रुत्या कीर्त्यत इति वाच्यम् । तथा सति जीवानामेव जगत्सर्गस्थिति लयोपादानत्वात् “सर्वं खल्विदं ब्रह्म’’ इत्यादिबह्मसामानाधिकरण्यं जगतः श्रूयमाणमेकविज्ञानेन सर्वविज्ञानप्रति ज्ञानं च पीड्येत । जीवस्य ब्रह्मभेदात्सर्वमेवोपपद्यत इति न कश्चिद्दोष इति चेत्तर्हि जीवपक्षपातं परित्यज्य ब्रह्मण एव जगत्त्स्रष्टृत्वादि यथाश्रुतं स्वीकर्तव्यम् । विना तस्याज्ञानाश्रयत्वं कूटस्थस्य न कामयितृत्वादीत्युक्तं तस्य च जीवाद्विभक्तस्यात्राज्ञानाश्रयत्वे तत्रापि स्यादन्योन्याश्रयः । ननु ब्रह्मणि जगत्कारणत्वादि निर्वाहकमज्ञानं मायाशब्दवाच्यमन्यदेव जीवगतकर्तुत्वाद्यव भासहेतुभ्योऽज्ञानेभ्योऽविद्याशब्दवाच्येभ्य इति चेन्न । मायाविद्ययोः श्रुति स्मृतिसूत्राभियुक्तवचनैरेकत्वस्य वृद्धेर्निरूपितवात् । अनिर्वचनीयत्वे सति तत्त्वावभासप्रतिबन्धविपर्ययावभासहेतुत्वस्य लक्षणस्य तुल्यत्वादविद्याभेदे च कल्पनागौरवदोषात् । एकाविद्यापक्षेऽप्यनन्तविक्षेपशक्तिकल्पनया जाग्रत्स्वप्न- बन्धमोक्षरशनाभुजङ्गादिव्यवहारव्यवस्थोपपत्तेः । न चात्रापि । कल्पनागौरवं समानं धर्मिभेदकल्पनातो धर्मभेदकल्पने लाघवात् । इत्यास्तां विस्तरः । १. C%A4%. 6. 8. 1. २. Bih. 1. 4. 7. ३. Chhd. 6. 9. 2. ४. T¢it. 2. 6. 1. ५. Idem2. 2. P. 1. ६. CA%%, 3. 14. 1 . ७. C£. "धर्मिभेदाद्धर्मभेदो लघीयानिति न्यायेन” in Anandagiri on Sarada bhaya 2. 4. 6. ,