पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१०६

एतत् पृष्ठम् परिष्कृतम् अस्ति

९२ वेदान्तसारटीका [ खण्डः ७ अतश्चिन्मात्रनिष्ठमज्ञानं तच्च जीवब्रह्मविभागहेतुर्बह्मणो जगत्स्नष्टृत्वा देर्जीवस्य कर्तुत्वादेश्च हेतुरित्यङ्गीकर्तव्यम् । न च चिन्मात्रस्य स्वप्रकाशत्वाद ज्ञानाश्रयत्वविरोधः । जीवपक्षेऽपि तुल्यत्वादन्तःकरणपरिणामोपह्रितस्येव चैतन्यस्याज्ञानविरोधित्वात् । न च ज्ञानवदज्ञानस्याप्येकाश्रयविषयत्वानु पपतिरावरकत्वेनापवरकस्थतमोवत्तदुपपत्तेः । तदुक्तमभियुक्तैः ‘‘आश्रयस्व विषयत्वभागिनी निर्विभागचितिरेव केवला । पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः” ॥ इति । तस्मादेकमज्ञानं चिन्मात्राश्रयविषयमिति स्थिते जीवावस्थायामेवाहमक्ज्ञ इति स्फुटतरव्यवहारात्तदपेक्षया जीवगताज्ञानानामित्युक्तमिति । अनयैव दिशा ‘‘जीवाश्रया ब्रह्मपदा ह्यविद्या तत्वविन्मता” । इति प्राचां वचनं योजनीयम् ॥ ननु नानात्वेन प्रतिभासमानानां जीवानामेक्काज्ञानोपाधिकत्व एकमुक्तौ सर्वमुक्तिप्रसङ्ग इति चेन्नायं दोष एकस्यैव जीवत्वादितरेषां तद्दृष्टिविजृम्भि तत्वेन ततोऽनतिरेकात् । तर्हि कोऽसौ जीवो यद्दृष्टिविजृम्भितं जीवान्तर- मिति चेद्यः पश्यति स एव । अहं तु संसारिणमात्मानमन्यांश्च मद्विधान् जीवानन्पश्यामीति चेत्तर्हि त्वमेव जीवस्त्वविद्यया वयमन्ये च जीवा बद्धा मुक्ताः सुखिनो दुःखिन इत्येवं विचित्राः कल्पितास्तवाब्रह्मसाक्षात्कारमवि संवादिताः प्रतिभासन्ते स्वप्न इवाप्रबोधम् । जाते तु ब्रह्मात्मसाक्षात्कारे सर्वमेव त्वद्दृष्टिविजृम्भितं त्वया सह मोक्षिष्यते त्वत्सुषुप्ताविवेति । इयांस्तु पुनर्विशेषः । सुषुप्तावस्त्यज्ञानं सर्वकार्यंसंस्कारोपरञ्जितं पुनरव्यवहारप्रवर्तकं मुक्तौ तु तस्य ज्ञानेन बाधितत्वात्पुनर्व्यवहाराभावः । इत्यलं प्रसङ्गागत- प्रपञ्चेन ॥ वनवृक्षयोर्जलाशयजलयोर्वा सामान्यविशेषभावो नास्तीति यद्यपि दार्ष्टान्तिकेन वैषम्यं तथापि समुदायसदायिनोरेकत्वे दृष्टान्तदार्ष्टान्तिकयोः साम्यात्सर्वांशेन च साम्यस्याविवक्षितत्वान्न कश्चिदोष इति गमयितम्यम् अज्ञानैकत्वव्यपदेशिनीं श्रुतिं पठति--अजामेकामिति । आदिपदात् “भायां तु प्रकृतिं विधात्", ‘तेरत्यविद्यां विततां ’, ‘'अक्षरात्परतः परः’ ८ १. S»lsepos'drroad 1. 316. २. Ved. S&dd% . Malect 3. ३. इव प्रबोधे । MQ. ४. Seek. iv. 10. ५. See Notes. ६. . . 1. 2.