पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१०७

एतत् पृष्ठम् परिष्कृतम् अस्ति

खण्डः ७ ] विद्वन्मनोरजनी 9 “‘तद्धेदं तर्ह्यव्याकृतं, “‘हेम आसीत्तमसा ” इत्याद्येकवचनान्तश्रुत्य-

न्तरग्रहः ॥ एकमेवाज्ञानं समष्टिव्यष्टिभेदभिन्न परिकल्प्य समष्टयज्ञानोपधान निबन्धनं चैतन्यव्यवहारं वक्तुं समष्टिं विशिनष्टि--इयमिति । उत्कृष्टस्योपाध्यन्तरा- ननुरक्ततयाप्रतिहतज्ञानात्मकस्य चैतन्यस्योपाधितया विशुद्धं रजस्तमोभ्या- मनभिभूतं सत्त्वं प्रधानं यस्याः सा तथाविधेयं समष्टिरित्यर्थः । समष्टय ज्ञानोपहितचैतन्यस्य व्यपदेशभेदं दर्शयति-एतदिति। परमार्थतोऽसङ्गस्यापि चैतन्यस्याध्यासिकसम्बन्ध सम्बद्धाज्ञानद्वारा सर्वावभासकत्वेन सर्वमर्यादा धारकसत्तारूपत्वेन सर्वजीवप्रवर्तकत्वेन च लब्धसर्वज्ञत्वादिगुणकस्य सद व्यक्तमन्तर्यामीश्वर इत्यादिव्यपदेशो भवतीत्यर्थः । उक्तेऽर्थे हेतुमाह सकलेति । सकलाज्ञानं समष्ट्यज्ञानम् । अवभासकत्वशब्दो विधारकत्वादे रप्युपलक्षणार्थः । सर्वविक्षेपसंस्कारवत्वादज्ञानस्य सत्कार्यवादाश्रयणाच्चा- ब्याकृताद्यवस्थास्वपि समष्टयज्ञानस्य सर्वत्वमिति द्रष्टव्यम् । उक्तव्यपदेशिकां श्रुतिमाह--यः सर्वज्ञ इति । सर्वज्ञः सामान्यत: सर्वविद्विशेषत इति भेदः। आदिशब्दात् ‘‘सदेव सोम्येदं’, ‘«एष सेतुर्विधरण:’,एष त आत्मान्तर्या- म्यमृतः’, ‘महतः परमव्यक्तं ”, “यतो वा इमानि’”,«यः परः स महेश्वरः ” इत्यादिश्रुत्यन्तरग्रहः । उपहितस्य व्यपदेशमुक्त्वोपाधेरपि तं सहेतुकमाह अस्येयमिति । अज्ञानमिदंशब्दार्थः । आनन्दप्रचुरत्वमुपहितधर्म आच्छाद- कत्वमज्ञानधर्मः । तदुभयाविवेकात्कारणमज्ञानमानन्दमयकोश इत्यर्थः । सर्व आकाशादय उपरमन्तेऽस्मिन्निति सर्वोपरमोऽज्ञानम् । तादृग्भावा- त्सुषुप्तिर्महासुषुप्तिः प्रलय इति यावत् । यतः सर्वोपरमत्वमत एवेति योजना। स्थूलप्रपञ्चो विराट् सूक्ष्मप्रपञ्चो हिरण्यगर्भः । . एवं समष्टयज्ञानं साभासं सव्यपदेशं निरूप्य व्यष्टयज्ञानमपि सदृष्टान्तं तथा निरूपयति---यथा वनस्येत्यादिना । कैवमनेकत्वव्यपदेशोडज्ञानस्येति तदाह-इन्द्र इति । इन्द्रः परमेश्वरः प्रकरणात् । स मायाभिर्मयाविक्षेप- शक्तिभिर्विक्षिप्तेषु देहेन्द्रियान्तःकरणेषु प्रतिबिम्बितः पुरुरूपो बहुरूपः सन्नीयते प्रकाशत इति श्रुत्यर्थः । आदिशब्दात् ‘‘य एको जालवानीशत ईशिनीभिः” इत्यादिश्रुत्यन्तरग्रहः। एकस्मिन्न्ज्ञाने ऽयष्टिसमष्टिशब्दप्रयोगे १. Brih. 1. 4. T. २. Rh%-Scalid 10. 129. ३. ३. . 6. 2. 1. ४. Brih. 4. 4. 22. MP९. read विधरण: . ५. Iden . 3 . 7. B. ६. Katha. iii. 11. ७. ०८iii. 1. ८. chrmra. x . 8. ९. Soc. iii. 1.