पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१०८

एतत् पृष्ठम् परिष्कृतम् अस्ति

.९४ वेदान्तसारणीका [खण्डः ७, ८ निमित्तमाह-अत्रेति । अज्ञानं सप्तम्यर्थः । व्यस्तव्यापित्वेन कार्योपाधि जीवव्यापित्वावभासेन व्यष्टिताव्यपदेशः । समस्तव्यापित्वेन कारणोपाधि सर्वज्ञाविभक्तसर्वव्यापित्वेन समष्टिताव्यपदेश इत्यर्थः । निकृष्टोपाधित येति । ज्ञानप्रतिबन्धकावरणवान् जीवो निकृष्टस्तस्योपाधितयेत्यर्थः । मलिनं रजस्तमोभ्यामभिभूतं सत्वं प्रधानं यस्याः सा तथा । रजस्तमसोः स्वातन्त्र्येण प्रतिबिम्बोद्ग्राहकस्वायोगादिति भावः । एतदुपहितं यष्ट्यज्ञानोपहितम् । एकाज्ञानावभासकत्वात् । अज्ञानैकदेशावभासकत्वादिति यावत् । व्यष्ट्य ज्ञानोपहितस्य प्राज्ञशब्दवाच्यत्वे कारणमाह-अस्येति । अस्य जीवस्या स्पष्टोपाधितया रजस्तमोभ्यामभिभूतसत्त्वप्रधानव्यष्ट्यज्ञानोपाधिकत्वेन हेतु नातिप्रकाशकत्वाभावत्प्राज्ञशब्दवाच्यत्वमित्यर्थः । प्रायेणाज्ञः प्राज्ञ इत्युक्तं भवति। पूर्ववदुपहितस्य व्यपदेशमुक्त्वोपाधेरप्याह-अस्यापीति । अपिशब्द ईश्वरोपाधिदृष्टान्तार्थः । अहङ्कारादेः सुषुप्त्याद्यवस्थायां संस्कारावशेषेण स्थितस्य कारणत्वादित्यर्थः । आनन्दप्रचुरत्वादेवेत्येवकारः कोशवदाच्छाद कत्वादिति हेत्वन्तरसमुच्चयार्थः । यद्वा आनन्दप्रचुरत्वाद्धेतोरेवेति भिन्न- क्रमः । तस्मिन्पक्षे कोशवदाच्छादकत्वादित्यनुषञ्जनीयम् । सर्वशब्दो जाग्रत्स्वप्तविषयः । शेषमतिरोहितार्थम् ॥ ७ ॥ ‘सता सोम्य तदा सम्पन्नो भवति” इत्यादिश्रुतेः सुषुप्तौ प्राज्ञस्येश्वर सम्पत्यवगमात्प्राज्ञेश्वरयोरेकत्वं तदवस्थयोरप्यव्याकृतसुषुप्त्योरेकत्वं सिद्ध वत्कृत्यानयोस्तदवस्थापन्नं भोगं दर्शयति-तदानीमिति । तयोरप्यवस्थयो- र्जीवावच्छेदकस्य व्यष्ट्यज्ञानस्य केनापि रूपेण स्थितत्वादेतावित्यादिद्वि वचनोपादानं सर्वांत्मनैक्ये पुनरुत्थानानुपपत्तेः । आनन्दं स्वरूपानन्द मनुभवतः । आनन्दशब्दोऽज्ञानतत्साक्षिणोरप्युपलक्षणपरः । तदानीमख ण्डात्मस्वरूपचैतन्येनैवानन्दद्यनुभवेऽभ्युपगम्यमाने स्वरूपस्य नित्यत्वात्त- ज्जन्यसंस्काराभावेनावस्थान्तरे स्मरणरूपपरामर्शानुपपत्तेस्तदनुकूलमुपाधि- विशेषं कल्पयति--अज्ञानवृत्तिभिरिति । अन्तःकरणादेरप्यज्ञानकार्यत्वेन तदात्मकत्वात्तदभिप्रायोऽज्ञानशब्दो माभूदिति विशिनष्टि -अतिसूक्ष्मा भिरिति । दुर्लक्ष्यत्वमतिसूक्ष्मत्वम् । तासां वृत्तीनां जडत्वात्कथं ताभि रानन्दाद्यनुभव इत्यत आह-चैतन्येति । चैतन्यव्याप्तभिरित्यर्थः । तथा च वृत्तिविनाशात्तद्विशिष्टचैतन्यस्यापि विनाशत्संस्कारजन्यं स्मरणमवस्था- न्तरे सम्भवतीति भावः । तत्र प्रमाणमाह-—आनन्दभुगिति । चेतो मुखश्चैतन्यदीप्तानवृत्तिप्रधानः । आदिशब्दात् १. Cha6, 8. 1.