पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/११०

एतत् पृष्ठम् परिष्कृतम् अस्ति

९६ वेदान्तसारटीका खण्ड १०,११ मज्ञानं कूटस्थासङ्गाद्वयचैतन्यात्मनो जगत्कारणत्वोपाधिरिति भावः । तदुक्तं- मभियुक्तैः ‘‘आच्छाद्य विक्षिपति संस्फुरदात्मरूपं जीवेश्वरत्वजगदाकृतिभिर्मृषेव । अज्ञानमावरणविभ्रमशक्तियोगा- दात्मत्वमात्रविषयाश्रयताबलेन” इति ॥ नन्वेवंविधाज्ञानोपाधिकस्येश्वरचैतन्यस्य यज्जगत्कारणत्वं तन्निमित्तत्वं स्यादु पादानत्वं चोभयं वेति जिज्ञासायामाह-शक्तिद्वयवदिति । स्वप्रधानतया कूटस्थचैतन्यस्वरूपावभासितया स्वोपाधिप्रधानतया उपाध्युपरक्तसत्तास्फूर्ति रूपतयेति भेदः । एकस्योभयविधकारणात्मकत्वे दृष्टान्तमाह--यथेति । लूतो- र्णनाभिः । तन्तुरेव कार्यं तन्तुकार्यम् । यथा लूता तन्तुनिर्माणे प्रसिद्धकार्पा सतूलकाष्ठयत्रादिसहायमनपेक्ष्यैव तन्तूनातानवितानात्मकं च तत्कार्यं जालरूपं सृजत्येवमीश्वरः प्राक्सृष्टेरेक एवाद्वितीयोऽसहाय एव स्वमायाशक्त्यावेशमात्रेण लिङ्गादिब्रह्माण्डान्तं जगत्सृजेदिति भावः । तथा च श्रुतिः—‘यत्तदद्रेश्यम ग्राह्यं इत्युपक्रम्य ‘‘येथोर्णनाभिः सृजते गृह्यते च यथा पृथिव्यामोषधयः सम्भवन्ति । यथा सतः पुरुपात्केशलोमानि तथा क्षरात्सम्भवतीह विश्वम्” इति ॥ “न्यायोऽपि—‘‘प्रकृतिश्व प्रतिज्ञादृष्टान्तानुपरोधात्” इति ॥ १० ॥ तदेवं चैतन्यस्य जगत्कारणत्वं प्रपद्य ततः कार्योत्पत्तिक्रमें दर्शयति तमःप्रधान इति । तमसः प्राधान्यनिर्देशाद्रजःसत्त्वयोरपि तत्र मात्रया वृत्तिद्रष्टव्या । उक्तभूतसृष्टिक्रमे प्रमाणमाह-तस्मादिति । नन्वाकाशं नोत्पद्यते निरवयवद्रव्यत्वादात्मवदिति चेन्न । उदाहृतश्रुतिबाधित विषयत्वे- नानुमानानुत्थानात्प्रत्यनुमानविरोधाच्च । तथाहि । आकाशमुत्पधते ‘महत्वे सति भूतत्वान्महापृथिव्यादिवत् । न चाश्रयासिद्धो हेतुराश्रयस्याकाशस्यो भयवादिसिद्धत्वात् । न च धर्मिग्राहकप्रमाणबाधनिबन्धनाप्याश्रयासिद्धता हेतोः । धर्मिग्राहकप्रमाणेन शब्दाश्रयत्वेनाकाशाख्यधर्मिमात्रसिद्धावपि तद्रतनित्यत्वादेस्तेनासिद्धेः । न च स्वरूपासिद्धो भूतत्वमहत्त्वयोः पक्षे सम्प्रतिपत्तेः । नापि व्याप्यत्वासिद्धो निरुपाधिकत्वात् । न च मूर्तत्वसा १. Salseparr.lo i. 20. २. . 1. 1. 6. ३. Idea. 1. 1. . ४. Brchestrळ . 4 23,