पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१२५

एतत् पृष्ठम् परिष्कृतम् अस्ति

खण्डः १६१७ विद्वन्मनोरञ्जनी, १११ वाच्यमारम्भवादस्यानङ्गीकारादेकस्यापि दुग्धवय विनो दध्यारम्भकत्वदर्श नात् । न च दुग्धावयवैरिव दध्यारभ्यत इति वाच्यम् । तथा सति दधिदुग्ध योर्गन्धरसादिवैषम्यं न स्याद्दुग्धस्येव सतः परिणामो दधीत्यभ्युपगमे स्याद्ग न्धादिवैषम्यम् । स्पर्शशून्यमपि द्रव्यं यथा गुणारम्भकं दृष्टं तथा द्रव्यार म्भकमप्यस्तु । श्रुतिरपि शरीरस्य सङ्कीर्णद्रव्यारब्धतां श्रावयति—‘अन्नम शितं त्रेधा विधीयत” इत्यादौ । याज्ञवल्क्योऽप्याह ‘‘पञ्चधातून्स्वयं षष्ठ आदत्ते युगपत्प्रभुः ” । इति । वस्तुतस्तु पञ्चानां भूतानां पञ्चमकत्वस्य दर्शितत्वादारम्भवादस्य निरा. कृतत्वाच्च नात्रोर्दयनाद्युक्तदोषशङ्कावकाशोऽपीति गमयितव्यं तस्मात्सिद्धं शरीरं पाञ्चभौतिकमिति ॥ १६ ॥ अत्रापीति स्पष्टार्थः । स्थूलसमष्ट्युपहितस्य चैतन्यस्य व्यपदेशभेदा नाह-एतत्समष्ट्युपहितमिति । चकारात्पुरुषादिशब्दग्रहः । उच्यते । ‘यैस्त्वेतमेवं प्रादेशमात्रमभि विमानमात्मानं वैश्वानरमुपास्ते’, ‘सैषा विराडन्नादी”, ‘‘पुरुष एवेदं’ इत्यादिश्रुतिभिरिति शेषः । तत्र हेतूनाह - सर्वनरेति । सर्वशब्दो विश्वपदपर्यायः । विश्वनराभिमानित्वाद्वैश्वानरः । विविधं राजमानत्वाद्विराट् । चकारात्पूर्णत्वात्पुरुष इति च द्रष्टव्यम् । उप- हितस्य व्यपदेशानुक्त्वोपाधेरपि तानाह---अस्यैषेति । ‘‘अन्नं वै विराट् " इतिश्रुतेरन्नविकारत्वम् । स्थूलभोगोऽतिस्पष्टो भोगः । एवं समष्टिस्थूलत- दुपहितचैतन्ययोर्युपदेशभेदं दर्शयित्वा व्यष्टिस्थूलतदुपहितयोरपि तमाह एतद्व्यष्टीति । व्यष्टिस्थूलशरीरोपहितस्य विश्वशब्दवाच्यत्वे हेतुमाह- सूक्ष्म इति । सूक्ष्मशरीरं कारणशरीरं तदुपरित्यज्य स्थूलशरीरादौ तदपे क्षया स्थूलशरीरं लिङ्गशरीरं तदादिर्यस्य परमस्थूलशरीरस्येति तेंदुणसंविज्ञानो बहुव्रीहिस्तस्मिन्प्रवेष्टृत्वात् । तथा हि जीवस्य त्रय उपाधयः । सुषुप्त्यादौ बुद्ध्यादिसंस्कारोपरञ्जितमज्ञानमात्रमुपाधिः । स्वप्ने जाग्रद्वासनामयं लिङ्ग- शरीरमुपाधिः । जाग्रदवस्थायां तु सूक्ष्मशरीरसंसृष्टस्थूलशरीरमुपाधिः । तथा च पूर्वपूर्वोपाधिविशिष्टस्यैवोत्तरोत्तरोपाधिप्रवेशात्सर्वशरीरप्रवेष्टृत्वेन स्थू लभोगायतनाभिमानिनो विश्व इति संज्ञेति । यद्वा सूक्ष्मशरीरं लिङ्गशरीरं तदपरित्यज्य स्थूलशरीरं विराड्व्यष्टिस्तदादिर्यासां चक्षुरादिवृत्तीनां तत्तद्वि षयाकाराणां च तत्प्रवेष्टृत्वादिति हेतुयोजना । स्थूलशरीरमपरित्यज्येति क्वचि १. P¢ichados’ १ xiii. 6, 7. See Notes . २. CH%ळ. 6. 5. 1 ३. Y®jpg|Qualkgosmozi + 8. 72. ४. Udayanachary, a Naiyइyika. ५. Cht5. 18. 1. ६. Idemo. 4. 3. 8. ७. Seek. 3. 15. ८. 668. Brahmap¢ 1. 6. 3. 4. (omits वै ). ९. See Notes.