पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१३०

एतत् पृष्ठम् परिष्कृतम् अस्ति

११६ वेदान्तसांरटीका खण्डः १९ करणत्वादेश्चाहमालम्बनत्वमबाधितम् । देहे तु ममप्रत्ययबाधितत्वाद्भाक्त ग्निति भावः ॥ मुख्यप्राणात्मवादिमतमुत्थापयति-अपर इति । अन्योऽन्नमयादात्मन इति योजना । स चान्नमयादन्तरोऽभ्यन्तर इत्यर्थः । प्राणाभावे प्राणस्य स्वस्थितिनिबन्धनान्नाद्यलाभेन कृशीभावे सतीन्द्रियाणां विद्यमानानामपि स्वस्वविषये प्रवृत्त्यदर्शनात्सति च तस्मिन्पुष्टे तद्दर्शनात्प्राण एवात्मा न प्राणाधीनस्थितिकानीन्द्रियाणीति । इन्द्रियाणां चैतन्यान्वयव्यतिरेकः करणत्वेनाप्युपपद्यत एव । तेषामेव कर्तृत्वे करणाभावप्रसङ्गः । किञ्चै कस्मिञ्छरीरे इन्द्रियाणां सम्भूय भोक्तृत्वं प्रत्येकं वा । द्वितीयेऽपि युगप त्क्रमेण वा । नाद्यः । रूपादौ चक्षुरादिभोग्ये जिह्मादीनां भोक्तृत्वादर्शनात् । न हि सैम्भूयेन्द्रियाण्येकं कार्यं निर्वर्तयन्ति । तेषां प्रतिनियतासाधारण- विषयभेदस्यान्वयव्यतिरेकसिद्धत्वात् । न द्वितीयः। उक्तेन प्रकारेण यौग पद्यासम्भवात् । प्रत्येकं क्रमेण भोक्तृणीन्द्रियाणीति तृतीयेऽपि पक्षे तेषां प्रत्येकं स्वातन्त्र्ये कदाचिदनैकमत्ये‘सति विरूद्धादिक्रियैस्तैरधिष्ठितं शरीरं विदीर्येत । अस्वातन्त्र्ये यदधीनत्वं तेषां तस्यैवात्मत्वं युक्तं स्वमिभृत्य- न्यायस्य शरीरैक्येऽनुपपत्तेः। प्राण एव तु मुख्यः सर्वेषामिन्द्रियाणामाश्रय इति युक्तमतः स एवात्मा स्वापप्रबोधयोरविच्छिन्नस्वभावः । प्रत्येकमिन्द्रि याणामात्मत्वेऽन्यदृष्टेऽन्यस्मरणानुपपत्तेरिह च यश्चक्षुषा रूपमद्राक्षं स इदानीं गन्धं जिघ्रामीति प्रत्यभिज्ञा दृश्यते । तस्मान्नेन्द्रियाण्यामान इति भावः । अशनायापिपासयोश्च प्राणधर्मत्वं प्रसिद्धमन्नपानयोरलाभे प्राणविच्छेददर्शनात् । तादृग्धर्मकश्च प्राणोऽहम्प्रत्ययविषय इति प्राण आत्मेत्यनुभव इत्यर्थः । मनआत्मवादिमतमुत्थापयति-अन्यस्त्विति । प्राणमयादन्योऽन्तर आत्मेति यावत् । मनसि सुप्ते विलीने प्राणदेरभावद्दृतिवच्छ्वासोच्छास- दर्शनस्य द्रष्टुदृष्ट्यध्यारोपितत्वादिन्द्रियाभावेऽपि स्वप्नस्मृत्योर्मनसि सम्प्रति पत्तेर्मन एवात्मेत्यर्थः । यद्वा प्राणादेरभावादिति तद्व्यापारोपरमे सुषुप्त्यादौ तस्याभावमुपचर्येदमुच्यते । तथा चेन्द्रियेषूपसंहृतव्यापारेणु प्रणे चोप- संहृतप्रणनापाननेतरवृत्तौ मनसैव केवलेन स्वप्नादेरुपलम्भान्मन एवात्मे- त्यर्थः। मनसश्च सङ्कल्पादिधर्मत्त्वं प्रसिद्धमित्यनुभवोक्तिः स्पष्टार्था । योगैचारमतमुत्थापयति—बौद्धस्त्विति । मनोमयादन्योऽन्तरोभ्यन्तर १. कारण° N. P. २. Contrast with this Nguyaadiyjcor, p. 556, line 8 :–‘; संभूय कारकैः कार्यमारभ्यत इति न्याया”. ३. See Notes. ४. See Notes.