पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१३१

एतत् पृष्ठम् परिष्कृतम् अस्ति

खण्डः १९] विद्वन्मनोरञ्जनी ११टें आत्मा विज्ञानमयः क्षणिकविज्ञानमय इति बौद्धाभिप्रायः। बुद्धिः क्षणिकं विज्ञानमात्मेत्यत्रानुभवमाह--अहं कर्तेति । मनस एव कर्तृत्वं स्यार्कि विज्ञानेनेत्याशङ्क्य मनसः करणपक्षपातित्वान्न कर्त्रनुभवगोचरत्वमित्यभिप्रेत्य युक्तिमाह--कर्तुरभाव इति । मनसः कर्तृत्वे सर्वेन्द्रियाणां स्वस्वविषयैर्युग पत्सम्बन्धे युगपज्ज्ञानोदयप्रसङ्गः। कर्तुर्मनसः सर्वैरिन्द्रियैरधिष्ठातृत्वेन युगप- त्सन्निहितत्वादपेक्षणीयान्तरानभ्युपगमाच्च । न चैवं दृश्यते तस्मान्मनसो- sन्यः कर्ता । मनस्तु विज्ञानक्रमहेतुः साधारणं करणमेवेत्यर्थः । एवं वेदबाह्यवादानुपन्यस्य विज्ञानमयकोशपर्यन्तमात्मनः प्रत्यक्त्वमवगमितम् । न च क्षणिकविज्ञानस्यैवात्मत्वमध्यवसातुं शक्यं ज्ञानेच्छाप्रयत्नसंस्कार- स्मृतीनामेकाश्रयत्वनियमात्तेषां च क्रमिकत्वाक्षणिकविज्ञानाश्रयत्वानुपपत्तेः । ज्ञानादीनामेकाश्रयत्वाभावे तु वस्तुनि दृष्टे पूर्वदृष्टसजातीयत्वादिलिङ्ग वशादिष्टसाधनताद्यनुमानपूर्वकं प्रवृत्याधभावः प्रसज्येत । अन्यदृष्टेऽन्य स्मरणानुपपत्तेः । उक्तं च न्यायकुसुमञजलौ-- ‘नान्यदृष्टं स्मरत्यन्यो नैकं भूतमपक्रमात् । वासनासंक्रमो नास्ति न च मत्यन्तरं स्थिरे” इति । क्षणिकपक्षे बन्धमोक्षयोरपि वैयधिकरण्यमित्यादिबहुदुष्टत्वादनादरणीयः क्षणिकविज्ञानात्मपक्ष इत्यभिप्रेत्य वेदवादिपक्षमाश्रित्य विज्ञानादप्यन्तर मात्मानं निर्दिधारयिषुस्तावत्तत्रापि स्थूलदर्शिमतभेदमाह-प्राभाकर ’ इत्यादिना । प्राभाकरतार्किकावज्ञानमात्मेति वदत इत्यन्वयः । अज्ञानं क्षणिकविज्ञानादन्यत्तदधिकरणं द्रव्यरूपमात्मतत्त्वमिति वदत इत्यर्थः । विज्ञानमयादप्यन्तरे आत्मनि श्रुतिं प्रमाणयति-अन्योऽन्तर आत्मेति । विज्ञानमयादानन्दमयोऽन्य इति यावत् । न चानन्दमयः परमात्मेति त्वम्पदार्थमध्ये न तस्योदाहरणं युक्तमिति वाच्यम् । अन्नमयादिविकारप्रायपठित मयट्श्रुतिविरोधात्प्रियशिरस्त्वादिवचनविरोधाच्च । एतच्च भाष्यकारैः ‘आन न्दमयोऽभ्यासात्” इत्यस्मिन्नधिकरणे निर्णीतम् । तस्माद्युक्तमेव त्वम्पदा र्थमध्य आनन्दमयश्रुत्युदाहरणमिति द्रष्टव्यम् । सुषुप्तौ बुद्ध्यादीनां ज्ञानः सुखदुःखेच्छादीनामज्ञाने ज्ञानभिन्न आत्मनि लयदर्शनादभावदर्शनातन्न ज्ञान मात्मेति युक्तिमाह--बुध्ध्यादीनामिति । सर्वज्ञानाभावस्य सुषुप्तौ सम्प्रति पञ्चत्वासुषुप्तिजागरितयोरप्यात्मैक्यप्रत्यभिज्ञानान्न ज्ञानमात्मा किन्तु तदन्य १. Stood%¢ 1. 15. M[a@@88 ii (2nd edn.). २. See Toil. 2. 5 (fतस्य प्रियमेव शिरः”), und Bhasya on the subra quoted below. ३. Branc8®8•z 1. 1. 12.