पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१३६

एतत् पृष्ठम् परिष्कृतम् अस्ति

१२२ वेदान्तसारटीका [ खण्डः २०२१,२२ः भव इति विशेषणेन मतान्तरेऽनुभवस्य मूलप्रमाणशैथिल्यं सूचयति । अध्यारोपप्रकरणमुपसंह्वरति--एवमिति ॥ २० ॥ एवमध्यारोपं सप्रपञ्चं निरूप्यपवादमिदानीं निरूपयिष्यंस्तल्लक्षणमाह-- अपवादो नामेति। कार्यस्य कारणमात्रसत्तावशेषणं कारणस्वरूपव्यतिरेकेण कार्यस्यासत्तावधारणं चापवाद इत्युक्तं भवति । एवंलक्षणोऽपवादः केन क्रमे णेत्यपेक्षायां ‘‘विपर्ययेण तु क्रमोऽत उपपद्यते च” इतिन्यायमाश्रित्योपत्ति क्रमवैपरीत्येनापवादं क्रमेण दर्शयति--तथाहीत्यादिना। प्रत्यक्षसिद्धे चतुर्विधभूतग्रामं चरमकार्यमङ्गुल्या निर्दिशति-एतद्भोगाय तनमिति । द्वितीय एतच्छब्दोऽन्नादिविषयः। आदिशब्दः पानादिसङ्गहार्थः । भूरादिचतुर्दशभुवनानि तृतीयैतच्छब्दार्थः । एतत्स्रर्वमित्यत्रैतच्छब्द उक्तसम स्तसङ्गहार्थः । एतेषामित्यस्यापि स एवार्थः । उत्पतिच्युक्रमेणेत्यस्यायमर्थः । पृथिवी गन्धतन्मात्रात्मिका रसतन्मात्रात्मिकाम्मात्रं भवति । आपश्च ता, रूपतन्मात्रात्मकतेजोमात्रं भवन्ति । तच्च तेजः स्पर्शतन्मात्रात्मकवायुमात्रं भवति । स च वायुः शब्दतन्मात्रात्मकाकाशमात्रं भवति । स चाकाशः स्वकारणभूताज्ञानोपहितचैतन्यमात्रं भवतीति । एतदाधारेत्यत्रैतच्छब्दोऽज्ञा नतदुपहितचैतन्यविषयः। एतदाधारेत्यादिब्रह्मान्तानां पदानां कर्मधारयः । तथा च स्मृतिश्रुती भवतः— ‘जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते । ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते । वायुश्च लीयते व्योम्नि तश्चाव्यक्ते प्रलीयते । अव्यक्तं पुरुषे ब्रह्मन्निष्कले सम्प्रलीयते’ ” ॥ इति, ‘पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः ” ॥ इति च ॥ २१ ॥ अध्यारोपापवादनिरूपणे फलितमाह—आभ्यामिति । ब्रह्मचैतन्यस्या द्वितीयप्रत्यग्रूपतानिरूपणार्थत्वादध्यारोपदिप्रपञ्चनस्य पदार्थशुद्धिरवान्तरफल- मिति सूचयितुं पदार्थशोधनमपीत्युक्तम् । तत्त्वपदयोः प्रत्येकं द्विवि धोऽर्थो वाच्यो लक्ष्यश्चेति । तदुभयं विभज्य दर्शयति--तथाहीत्यादिना । समष्टयज्ञानं तदुपहित ईश्वरस्तदुभयाश्रयमनुपहितं स्वमहिम्नि प्रतिष्ठित मक्षरशब्दवाच्यं चिन्मात्रमित्येतत्रयं तप्तायःपिण्डवदविविक्तं तत्पदवाच्यार्थ इत्यर्थः । आदिपदसमष्टिहिरण्यगर्भविराजौ गृह्यते । तत्राज्ञानदिक्व्यष्टि- १. Brol708 totr८ 2. 3. 14. २. l@lb0e0%a@ 12 (chap. 341) 1283312895. The 3rd line, however, differs from the Mahit bharata, See Notes. ३. ८. ३. 11,