पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१३८

एतत् पृष्ठम् परिष्कृतम् अस्ति

१२४ वेदान्तसारटीका [ खण्डः २३, २४ दखण्डार्थप्रतिपत्तिरिति भावः । अंशान्तरपरित्यागेनांशान्तरलक्षणायाः शास्त्रप्रसिद्धां संज्ञां सङ्गिरते—इयमेवेति । जहदजहल्लक्षणेदंशब्दार्थः । अयं भावः । तत्त्वम्पदयोः सामानाधिकरण्यं तावच्छूयते न तत्तयोर्भिन्नार्थत्वे सम्भवति स्तम्भकुम्भपदयोस्तदर्शनात् । नाप्येकार्थाभिधायकत्वेन वैश्व• देव्यामिक्षेतिवत्तद्धितादेरेकार्थसमर्पकस्य कारणस्येहादर्शनात् । तथाहुः- आमिक्षां देवतायुक्तां वदत्येवैष तद्धितः । आमिक्षापदसान्निध्यात्तस्यैव विषयार्पणम्” ॥ इति परिशेषादेकार्थलक्षकत्वेनैवेति ॥ २३ ॥ ननु तत्त्वम्पदयोः सामानाधिकरण्यं विनापि लक्षणयैकारथ्मुपपत्स्यते नीलमुत्पलमितिवदित्याशङ्कयाह--अस्मिन्निति । अखण्डार्थत्वस्य विवक्षि तत्वादित्यभिसन्धिः । ननु नीलोत्पलवाक्येऽपि स्यादखण्डार्थता नेत्याह तत्रेति । शौक्ल्यादिव्यावर्तकनीलगुणस्य पटादिव्यावर्तकोत्पलद्रव्यस्य च गुण गुणिभावेन विरोधाभावत्तत्संसर्गैक्यस्य वा तदन्यतरविशिष्टस्यान्यतरस्य वा वाक्यार्थत्वान्नाखण्डार्थत्वं मुख्यैक्यस्य तत्राविवक्षितत्वादित्यर्थः । प्रकृतवाक्ये नीलोत्पलवाक्याद्वैषम्यमाह-अत्रत्विति । यद्यपितत्त्वम्पदार्थयोः स्वरूपतो न प्रत्यक्षत्वं तत्पदार्थस्याद्वितीयत्वात्त्वम्पदार्थस्य च द्रष्टृत्वाद्रष्टुदृश्यत्वानु- पपत्तेस्तथा च तद्भेदस्याप्यप्रत्यक्षता तथापि तत्त्वम्पदयोः परोक्षापरोक्षार्थाधि गतसङ्गत्योः श्रवणसमयेऽपरिशोधितपदार्थस्य पुंसो भवति विरोधस्फूर्तिरिति तदपेक्षया प्रत्यक्षादिप्रमाणविरोधादित्युक्तम् । तथा च तत्त्वम्पदयोः शबलांशे व्युत्पन्नयोर्विरुद्धार्थविषयकत्वेनैक्यनिष्ठत्वाभावान्न विवक्षितं सामानाधिकर ण्यमुपपद्यत इति भावः । एतदुक्तं भवति । न तावत्तत्त्वमर्थयोर्नीलोत्पल वद्दुणगुणिभाव उभयोरपि द्रव्यत्वात् । नापि कुण्डलसुवर्णवत्कार्यकारणभावो नित्यत्वादविकृतत्वाच्च ।नापि भूम्यूषरादिवदंशांशिभावो निरवयवत्वात् । नापि क्रियातद्वद्भावो बाणादिवन्निष्क्रत्वात् । नापि गोत्वशाबलेयादिव जातिव्यक्तिभावो द्रव्यत्वादेव । अत एव न विशेषविशेषिभावोऽपि । वस्तुतस्तु विज्ञानघनमात्रत्वावधारणान्नेति नेतीत्यशेषविशेषप्रत्याख्यानेन निर्ध र्मकत्वावधारणाच्च न केनापि प्रकारेण तत्त्वमस्यादिवाक्यानां संसृष्टार्थंनिष्ठ त्वशङ्कावकाशं लभते । न चेदं वाक्यं त्वमिन्द्रोऽसीतिवत्स्तुतिपरं नव कृत्वोऽभ्यासवैयर्थप्रसङ्गात् । न हि स्तुतिः पुनःपुनः परिचोदनापूर्वकं क्वचिदभ्यस्यते । अत एव नार्थवादोऽनन्यशेषत्वाच्च । न ह्यस्मिन्प्रकरणेऽन्य त्किञ्चिप्रधानवाक्यमुपलभ्यते यच्छेषत्वेनेदमर्थवादरूपं भवेत् । नापि राज १. शctrowaryakob 2. . 23, page 533.