पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१४१

एतत् पृष्ठम् परिष्कृतम् अस्ति

खण्डः२८, २९, ३०] विद्वन्मनोरञ्जनी सहिता सतीति । प्रत्यक्चितिव्याप्तेति ग्रास्रत् । ब्रह्मणो विषयीकरणं नाम वृत्तेस्तदाभिमुख्यम् । ब्रह्मशब्दस्य कार्यब्रह्मविषयत्वं व्यावर्तयति--परमिति । तस्य प्रमेयत्वमाह-अज्ञातमिति । तस्य ताटस्थ्यं वारयति-प्रत्यगभिन्न मिति । अज्ञानमेव बाधत इत्येवकारेण ब्रह्मणः प्रकाश्यत्वं व्यावर्त्यते । एवं विधया वित्तवृत्त्या संसारमूलाज्ञाने बाधिते सत्यप्यस्या वृत्तेर्बाधकाभावान्मो-. क्षोऽपि सप्रपञ्चः स्यादित्यत आह--तदेति । वृत्तेर्बाधकाभावेऽपि दग्धेन्धनान लवत्स्वयमेव विनयति ततो न सप्रपञ्चो मोक्ष इत्यर्थः। तर्हि वृत्तिप्रतिबिम्बि तस्य प्रत्यक्चैतन्यस्य का गतिरिति तामाह--तत्रेति । तत्र प्रतिबिम्बितं चैत- न्यमप्यखण्डचित्तवृतेर्बाधितत्वात्प्रत्यगभिन्नपरब्रह्ममात्रं भवतीत्यन्वयः। स्वोपा धिविलये उपहितस्य स्वस्वरूपमात्रावस्थाने दृष्टान्तो दर्पणाभाव इति । उपा ध्यनुगामिनो निरुपाधिप्रकाशनासामर्थ्ये दृष्टान्तमाह-यथा दीपप्रभेति । यद्वा परिच्छिन्नप्रकाशस्यापरिच्छिन्नानवभासने दृष्टान्तो यथा दीपेति ॥ २८ ॥ वाक्यजनिता ब्रह्मात्मकारा चित्तवृत्तिस्तद्गताज्ञानमेव बाधते न नतु तत्प्रका शयतीति विशेषनिरूपणे फलितमाह-एवं चेति । अविरोधः सिद्ध इति शेषः । तत्रैवंशब्दसूचितमर्थं हेतुमाह-वृत्तिव्याप्यत्वा° इति । विशिष्ट- शब्दादिप्रमाणबलात्तत्तद्विषयाकारधीसमुन्मेषाभिव्यक्तत्वं वृत्तिव्याप्यत्वम् । बाह्येन्द्रियसन्निकृष्टार्थाकारबाह्यधीपरिणामावच्छिन्नचिदंशकृतप्राकट्याश्रयत्वं फलव्याप्यत्वमिति भेदः। उक्तेऽर्थे वृद्धसम्मतिमाह-फलव्याप्यत्वमिति । फलव्याप्यत्वाभावं सम्मत्यन्तरेण साधयति--स्वयप्रकाशेति । ननु ब्रह्म फलव्याप्यं साभासान्तःकरणव्यङ्ग्यत्वात्प्रत्यक्षत्वाद्वा घटादिवद्यद्वा ब्रह्माकारा वृत्तिः सकर्मिकापरोक्षवृत्तित्वाद्घटादिवृत्तिवदित्याशङ्क्य पूर्वस्मिन्ननुमाने जडत्वमु पाधिरुत्तरस्मिस्तु जडविषयत्वमुपाधिरित्यभिप्रेत्याह-जडपदार्थेति । प्रतिज्ञा तमर्थं सदृष्टान्तमुपपादयति-तथा हीत्यादिना । इतिशब्दोऽनुभववाक्यार्थ निरूपणसमाप्त्यर्थः ॥ २९ ॥ इदानीं “आवृत्तिरसकृदुपदेशात्” इतिन्यायमाश्रित्यैवंविधसाक्षात्कार रूपानुभवदाढर्युपर्यन्तमनुष्ठेयं श्रवणादिसाधनजातं निरूपयितुमारभते-एव मित्यादिना । तथा च श्रुतिः -‘तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेद्बाल्यं च पाण्डित्यं च निर्विघाथ मुनिः” इति पाण्डित्यबाल्यमुनिशब्दैः क्रमेण श्रवणमनननिदिध्यासनानि विधत्ते । तथा-- ३.५Magime it., (2nd edh.). , २. Bradioastra + 1:1 : Ja ३. 5. 1.