पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१४५

एतत् पृष्ठम् परिष्कृतम् अस्ति

१ ३ १ ‘ खण्डः ४१,३२९ - विद्वन्मनोरञ्जनी । स्मरणं कीर्तनं केलैिः प्रेक्षणं गुह्यभाषणम्। सङ्कल्र्पोऽध्यवसायश्व क्रियानिर्वृतिरेव च ॥ एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः। विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम्” ॥ इति । अपरिग्रहः समाध्यनुष्ठानानुपयुक्तस्य वस्तुमात्रस्यासङ्गहः ॥ नियमानाह-शौच' इति । शौचं बाह्याभ्यन्तरलक्षणम् । तदुक्तं—. ‘‘शौचं तु द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा । मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिस्तथान्तरम् ” ॥ । इति । सन्तोषो यदृच्छालाभसन्तुष्टिरलाभे चाविषादः । तपः कामानशनं तपो नानशनात्परं” इतिश्रुतेः । अनशनं च कामानशनमेव । केचितु ‘मन सश्चेन्द्रियाणां च ह्यैकाग्र्यं परमं तप' ’ इत्याद्युक्तलक्षणं तप इत्याहुः । सर्वथा तु नात्र चान्द्रायणादिः तपःशब्दार्थस्तस्य समाधिविरोधादिति द्रष्टव्यम् । स्वाध्यायः प्रणवजप उपनिषद्भन्थावृत्तिश्च ‘‘ओमित्येवं ध्यायथ आत्मानं’, ‘उपनिषद्मावर्तयेत्” इतिश्रुतेः। ईश्वरप्रणिधानं तस्य मानसै- रुपचारैरभ्यर्चनं ‘‘तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये इतिमञ्जलिङ्गात् ॥ अथासनादीनि कथयति-कर इति । स्वस्तिकादीनीत्यादिपदाद्भद्रवी- रासनादिग्रहः । रेचकः प्रणवायोः शनैर्वामनासापुटाद्दक्षिणनासापुटाद्वा सव्यापसव्यन्यायेन बहिर्निःसरणम् । पूरकस्तस्य तथैवान्तःप्रवेशनम् । कुम्भकस्तु पूरितंस्य वायोरन्तरेव निरोध इति भेदः । समाधेर्ध्यानस्य. भेदं द्योतयितुं विच्छिद्य विच्छिद्येत्युक्तम् । सुगममन्यत् ॥ ३१ ॥ एवं साङ्गसमाधिमनुतिष्ठतो यदातिवृष्ट्यनावृष्टिराष्ट्रविप्लवव्याघ्रचौरज्वरा- ध्युपद्रवविघ्नसम्भावना भवति तदा तन्निवृत्तिर्लोकावगतसाधनावलम्बनेन कार्या । यदा तु मनस्येव विघ्नाः प्रादुर्भविष्यन्ति तदा तन्निवारणोपायमुपदेष्टु कामस्तत्रत्यान्विघ्नान्निर्दिशति–अस्येति । लयादीन्विभज्य लक्षयति-लय स्तावदिति ॥ ३२ ॥ १. Dadasa-8@f»b%%, chap, T. The last line, however, is not in the Bombay edition (consisting of 28 Smritis, styled' DRaonkeys'bstroSagrld. ). २. Yajnag¢zczygag»; i. 69, and Dokso®s»%%%%% 5. ३. Mohondro. 21. 2. ४. Updes'asahasr xvii. 24. Compare “मनसश्चेन्द्रियाणां चाप्यैकाख्यं निश्चितं तपः*। Mid" bhuvoted B. 15429 (3. 260. 25 of Bombay edition ). ५. Myd 2. 2, 6. ६. Aroundez]८, 2. ७. S९८uet, .6. 18.