पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१४८

एतत् पृष्ठम् परिष्कृतम् अस्ति

१३४ वेदान्तसारटीका [ खण्डः ३५, ३७ यतो निष्क्रिय इति योजना । तथा च वसिष्ठः —‘‘सुषुप्तवद्यश्चरति स मुक्त इति कथ्यते’ इति ॥ ३५ ॥ नन्वसौ जीवन्मुक्त इति कथमन्यैर्ज्ञायत इति तदाह--अस्य ज्ञाना- त्पूर्वमिति । अशुभवासनानां साधकावस्थायामेव निवर्तितत्वाच्छुभवासना नामेवानुवृत्तिर्भवतीत्यर्थः । ननु शास्त्रविहितं शुभमेवाचरतो न साधकाद्भेद इत्यपरितुष्यन्निवाह -शुभाशुभयोरौदासीन्यं वा इति । औदासीन्यमुपेक्षा ‘हिंसानुग्रहयोरनारम्भी” इति गौतमस्मरणात् । ‘‘निराशिषमनारम्भं निर्नमस्कारमस्तुतिम् । अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः ” ॥ इति व्यासवचनात् । ‘‘अमौनं मौनं च निर्विद्याथ ब्राह्मण’ इति बृहदारण्यकश्रुतेश्च । तथा चौदासीन्यमेव मुक्तलक्षणं न विधिपरतत्रप्रवृत्ति मत्त्वं न व निषेधातिक्रम इति भावः । विधिनिषेधशास्त्रपरवशत्वं चेन्मुक्तस्य न भवेत्तर्हि यथेष्टाचरणं प्राप्नो तीत्याशङ्कां नैष्कर्म्य सिद्धिवाक्येन प्रत्याचष्टे--तदुक्तं बुद्ध इति । सतत्वं याथात्म्यम् । मुमुक्षोरपि नास्ति यथेष्टचेष्टा विदुषो मुक्तस्य कुत एव सा । तदप्युक्तम्- ‘‘यो हि यत्र विरक्तः स्यान्नासौ तस्मिन्प्रवर्तते । लोकत्रयाद्विरक्तवान्मुमुक्षुः किमितीहते ॥ क्षुधया पीड्यमानोऽपि न विषं ह्यतुमिच्छति । मिष्टान्नध्वस्ततृड् जानन्नमूढस्तज्जिघत्सति ॥ रागो लिङ्गमबोधस्य चित्तव्यायामभूमिषु । कुतः शाङलता तस्य यस्याग्निः कोटरे तरोः ” ॥ इत्यादि ॥ ३६ ॥ नन्वविद्याकार्यत्वाद्यथेष्टचेष्टाया अविद्यानिवृत्या तन्निवृत्तिवदमानित्वादी नामद्वेष्टृत्वादीनामप्यविद्याकार्यंत्वा विशेषान्निवृत्तिरेव स्यान्नानुवृत्तिरित्याशङ्कय नियोगवशादनुवृत्यभावेऽपि निवृत्तिशास्त्राविरुदस्वभावत्वान्न निवर्तेरन्निति दर्शयति--तदानीमिति । तत्रापि नैष्कर्म्यसिद्धिमुदाहरति तदुक्तमुत्पन्ना इति ॥ ३७ १. Yogo®d&is¢h® 5. 16. 19. २. GautamळMonous 'dstre iii. 24. 25. See Notes. ३. Mahabharatd 12. 9430 (०hap. 264.). It is found also on p. 1817 of Suresvara's large Vartika. ४. Bri%, 3. 5. 1 . ५. Nuishargsida iv. 65-67. The first +w० verses, however, are taken from Safkara's Upcdes' d8dahasr (xviii. 231, 232).