पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
खण्डः ५, ६]
सुबोधिनीसहितः

जलराशिमिवोपहारपाणिः श्रोत्रियं ब्रह्मनिष्ठं गुरुमुपसृत्य तम- नुसरति ‘‘समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठं" इत्यादिश्रुतेः। स परमकृपयाध्यारोपापवादन्यायेनैनमुपदिशति तस्मै स विद्वानु पसन्नाय प्राह” इत्यादिश्रुतेः ॥ ५ ॥

 असर्पभूतायां रजौ सर्पारोपवद्वस्तुन्यवस्त्वारोपोऽध्यारोपः।


लक्षितो बुद्धिसन्निहितोऽधिकारी गुरुमुपसरतीत्यर्थः । ननु संसारासक्त- चित्तस्य विषयलोलुपस्यार्तिरहितस्य गुरूपसर्पणमयुक्तमित्याशङ्क्याह संसारा नलसन्तप्त इति । सन्तापे हेतुमाह जननेति । आदिशब्देन भ्याध्यादयो गृ ह्यन्ते । आतपाग्निदग्धमस्तको दाहनिवृत्तिकामो यथा शीतलं जलराशिमनुस रति तथा संसारतापत्रयदन्दह्यमानस्त स्तन्निवृत्तिकामः स्वस्वरूपजिज्ञासुः संसार- निवर्तकं श्रोत्रियं ब्रह्मनिष्ठं करतलामलवत्स्वप्रकाशात्मस्वरूपसमर्पकं गुरु समीपं गवानुसरति मनोवाक्कायकर्मभिः सेवत इत्यर्थः । अस्मिन्नर्थे श्रुति मुदाहरति समित्पाणिरिति । अथ गुरुकृत्यमाह स इति । स पूर्वोक्तो गुरु रेनं शिष्यमुपदिशतीत्यन्वयः। परमरहस्यमपि ब्रह्मस्वरूपं कस्मादुपदिशती त्यत आह कृपयेति । कृपाव्यतिरेकेण साधनान्तराभावादित्यर्थः । नन्व• खण्डस्य ब्रह्मस्वरूपस्यागोचरत्वेनोपदेष्टुमशक्यत्वात्कथमुपादिशतीत्यत आह अध्यारोपेति । अखण्डब्रह्मस्वरूपस्यागोचरत्वेन विधिमुखत्वेनोपदेष्टुमशक्य त्वेऽपि ‘नेह नानास्ति किञ्चन” इत्यादिश्रुतिमनुसृत्याविद्यारोपितमिथ्या नानापदार्थनिषेधमुखेनोपलक्षितमखण्डचैतन्यमेव पुनः ‘'सत्य ज्ञानमनन्तं ब्रह्म’ इत्यादिश्रुतिमनुसृत्य लक्षणया विधिमुखेनाप्युपदिशतीति भावः । तत्र श्रुतिमाह तस्मा इति ॥ ५ ॥

{{gap अस्मिन्नर्थे लौकिकदृष्टान्तमाह असर्पभूतायां इति । व्यावहारिकवस्तुत्वेना भिमतायां रज्जौ अवस्तुभूतसर्पारोपो नाम रज्जववच्छिन्नचैतन्यस्थाविया सर्प ज्ञानाभासाकारेण परिणममाना सर्पाकारेण विवर्तते स विवर्तो रज्जववच्छिन्न चैतन्यनिष्टाविद्योपादानत्वेन नायं सर्पः किन्तु रज्जुरिति विशेषदर्शनोत्तरका लीनाधिष्ठानरजेजुसाक्षात्कारेण रज्वज्ञाननिवृत्तौ सर्पभ्रान्तिर्निवर्तेत इत्यर्थः ।}}


1. M{. 1. 2. 12. 2. See Notes. 3. So all the Mss; BJ. insert आरमतत्वं before प्राह. 4. Matc c¢. 1. 2. 13.


१. See करविन्यस्तबिल्वभ्याय in M¢ma ii (2nd . edn.). २. Burh. 4. 4. 19. ३. पदार्थापवाद० EK. ४. aib . 2. 1. ५. व्यावहारिके ECL•