पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
[खण्डः १०, ११
वेदान्तसारः

‘घनच्छन्नदृष्टिर्घनच्छन्नमर्क
यथा मन्यते निष्प्रभं चातिमूढः ।
तथा बद्धवद्भाति यो मूढदृष्टेः
स नित्योपलब्धिस्वरूपोऽहमात्मा” इति ।

 अनयैवावरणशक्त्यावच्छिन्नस्यात्मनः कर्तृत्वभोक्तृत्वसुख दुःखमोहात्मकतुच्छसंसारभावनापि सम्भाव्यते यथा स्वाज्ञा नेनावृतायां रज्ज्वां सर्पत्वसम्भावना । विक्षेपशक्तिस्तु यथा रज्ज्वज्ञानं स्वावृतरज्जौ स्वशक्त्या सर्पादिकमुद्भावयत्येवमज्ञा नमपि स्वावृतात्मनि विक्षेपशक्त्याकाशादिप्रपञ्चमुद्भावयति तादृशं सामर्थ्यम् । तदुक्तम्-

‘विक्षेपशक्तिर्लिङ्गादि
ब्रह्माण्डान्तं जगत्सृजेदिति ॥ १० ॥

 शक्तिद्वयवदज्ञानोपहितं चैतन्यं स्वप्रधानतया निमित्तं ।


र्यते तथातितुच्छं परिच्छिन्नमप्यज्ञानं प्रमातृबुद्धिमात्राच्छादकत्वेनात्मानमाच्छा दयतीत्युपचारादुच्यत इत्यर्थः । अस्मिन्नर्थे वृद्धसम्मतिमाह तदुक्तमिति । इयमेववरणशक्तिरात्मनो भेदबुद्धिजनकत्वेन संसारहेतुरिति भावः । अत्रानुरूपं दृष्टान्तमाह यथेति । यदुक्तमसङ्गोदासीनस्यात्मनः कथं जगत्कारणत्वमिति तन्निराकर्तुं विक्षेपशक्तिस्वरूपमाह विक्षेपेति । यथा रज्जुविषयकमज्ञनं सर्प- मुत्पादयति तथात्मविषयकमज्ञानमपि स्वावच्छिन्न आत्मनि विक्षेपशक्तिप्रभावे नाकाशादिप्रपञ्चमुद्भावयत्युत्पादयतीत्यर्थः । अस्मिन्नर्थे ग्रन्थान्तरसम्मतिं दर्श यति तदुक्तमिति ॥ १० ॥

 ननु किमात्मा चराचरादमकप्रपञ्चस्य निमित्तकारणमुपादानकारणं वा । नाद्यो दण्डादिवत्स्वकार्रव्यापित्वं न स्यादात्मनः ‘‘तैत्सृष्ट्वा तदेवानुप्राविशत् ” इतिश्रुत्या स्वकार्यव्यापित्वश्रवणात् । न द्वितीयोऽचेतनस्य जडस्य प्रपञ्चस्य चैतन्योपादानकत्वासम्भवात् । उपादानत्वेन च कार्यकारणयोरभेदेन प्रपञ्च स्यापि चैतन्यरूपत्वप्रसङ्गादनित्यत्वं न स्यादित्याशङ्क्य जडप्रपञ्चं प्रत्यात्मनश्चैतन्य 1. V:gasuddha, 13. १. Tok. 2. 6. 1.