पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
खण्डः २२, २३]
३१
सुबोधिनीसहितः

भवति । तथाहि । अज्ञानादिसमष्टिरेतदुपहितं सर्वज्ञत्वादिवि शिष्टं चैतन्यमेतदनुपहितं चैतत्रयं तप्तायःपिण्डवदेकत्वेनाव भासमानं तत्पदवाच्यार्थो भवति । एतदुपाध्युपहिताधारभूत मनुपहितं चैतन्यं तत्पदलक्ष्यार्थो भवति । अज्ञानादिव्यष्टिरे तदुपहिताल्पज्ञत्वादिविशिष्टचैतन्यमेतदनुपहितं चैतत्रयं तप्ता यक्ःपिण्डवदेकत्वेनावभासमानं त्वम्पदवाच्यार्थो भवति । एत दुपाध्युपहिताधारभूतमनुपहितं प्रत्यगानन्दं तुरीयं चैतन्यं त्वम्पदलक्ष्यार्थो भवति ॥ २२ ॥

 अथ महावाक्यार्थो वर्ण्यते । इदं तत्त्वमसीतिवाक्यं सम्बन्ध त्रयेणाखण्डार्थबोधकं भवति । सम्बन्धत्रयं नाम पदयोः सामा नाधिकरण्यं पदार्थयोर्विशेषणविशेष्यभावः प्रत्यगात्मलक्षणयो र्लक्ष्यलक्षणभावश्चेति । तदुक्तम्--


 हीति । अज्ञानं तदवच्छिन्नेश्वरचैतन्यं तदनुपहितचैतन्यं चैतन्न्यं तप्तायःपि ण्डवदन्योन्यतादात्म्याध्यासानैकत्वेन प्रतीयमानं सत्तत्पदवाच्यार्थो भवती त्यर्थः । तत्पदक्ष्यार्थमाह एतदिति । भज्ञानावच्छिन्नेश्वरचैतन्यस्याधारभूतं यदनुपहितचैतन्यं तत्ताभ्यां विविक्तं सद्भेदविवक्षया तरपदलक्ष्यार्थो भवती त्यर्थः । त्वम्पदवाच्यार्थमाह अज्ञानादीति । व्यष्टिभूतमज्ञानं यदन्तःकरणं तदवच्छिन्नं जीवचैतन्यं तदनुपहितं चैतन्यं चेत्येतत्रयं तप्तायःपिण्डवत्पर- स्परतादात्म्याध्यासेनाभेदविवक्षया त्वम्पदवाच्यार्थो भवतीत्यर्थः । त्वम्पद् लक्ष्यार्थमाह एतदिति । अन्तःकरणोपहितचैतन्यत्रयस्याधारभूतं यदनुपहितं प्रत्यगानन्दं तुरीयं चैतन्यं स्वम्पदलक्ष्याथो भवतीत्यर्थः ॥ २२ ।।

 पदार्थमभिधाय वाक्यार्थमाह अथेति । ननु जीवेश्वरयोः किञ्चिज्ज्ञस्व- सर्वज्ञत्वादिविशिष्टयोरत्यन्तविलक्षणयोस्तत्त्वमस्यादिमहावाक्यानि परस्परविरू द्धार्थप्रतिपादकानि कथमखण्डैकरसं ब्रह्म प्रतिपादयन्तीत्याशङ्कय साक्षादै- क्यप्रतिपादकत्वाभावेऽपि लक्षणया सम्बन्धत्रयेणाखण्डैकार्थं प्रतिपादयन्ती

1. So ABDG; the rest vary . 2. See Notes. 3. C28८. 6. . 8. . 4. So all the Mss.; but the printed editions प्रत्यगात्मपदा र्थयोः5. NWi%rungusiddh; iii. 3. १. व्यष्टिभूताज्ञानान्तः° K. २. So CKL•; FJ. Omit त्रय