पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
[खण्डः ३०
वेदान्तसारः

तत्र श्रूयमाणं प्रयोजनम् । यथा तत्र ' ‘आचर्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्य" इत्य द्वितीयवस्तुज्ञानस्य तत्प्राप्तिः प्रयोजनं श्रूयते । प्रकरणप्रति- पाद्यस्यं तत्र तत्र प्रशंसनमर्थवादः। यथा तत्रैव "उतै तमादे शमप्रेक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातं” इत्यद्वितीयवस्तुप्रशंसनम् । प्रकरणप्रतिपाद्यार्थसाधने तत्र तत्र श्रूयमाणा युक्तिरुपपत्तिः । यथा तत्र “‘यथा सौम्यैकेन मृत्पिण्डेन सर्वे मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यं" इत्यादावद्वितीयवस्तुसाधने विका रस्य वाचारम्भणमात्रत्वे युक्तिः श्रूयते । मननं तु श्रुतस्या द्वितीयवस्तुनो वेदान्तानुगुणयुक्तिभिरनवरतमनुचिन्तनम् । विजातीयदेहादिप्रत्ययरहिताद्वितीयवस्तुजातीयप्रत्ययप्रवाहो


श्रुतिमाह ‘‘उत तमादेशं”’ इत्यादि । “येनाश्रुतं श्रुतं भवति’’ इति । येन सकळप्रपञ्चाधिष्ठानब्रह्मस्वरूपश्रवणेनाश्रुतं प्रपञ्च जातमपि श्रुतं भवति । येन ब्रह्मज्ञानेनाज्ञातं सर्वं जगज्ज्ञातं भवति । येन ब्रह्मसाक्षात्कारेण साक्षा त्कृतं भवति ब्रह्मणः सर्वतः सम्प्लृतोदकस्थानीयत्वादित्यर्थः । अवशिष्टाया उपपत्तेर्लक्षणमाह युक्तिरिति । तामुदाहरति यथेति । मृद्विकारे घटादिषु विकारनामधेययोर्वाचारम्भणमात्रत्वेन यथा मृत्मेवावशिष्यते नान्यत्तथा चिद्विवर्तस्य प्रपञ्चस्य गिरिनदीसमुद्रात्मक विकारनामधेययोर्वाचारम्भणमात्र- त्वाच्चिन्मात्रमेवावशिष्यते रज्जुविवर्तस्य सर्पस्य रज्जुमात्रावशेषवदित्यर्थः । श्रवणनिरूपणानन्तरं तदुत्तराङ्गस्य मननस्य लक्षणमाह मननं त्विति । षद्विधलिङ्गतात्पर्यपूर्वकं श्रुतस्याद्वितीयब्रह्मणो वेदान्ताविरोधिनीभिर्युक्ति भिर्नैरन्तर्येणानुचिन्तनं मननमित्यर्थः । निदिध्यासनलक्षणमाह विजाती- येति । विजातीयदेहादिबुदध्यन्तजडपदार्थनिराकरणेन सजातीयाद्वितीयवस्तु- विषयकप्रत्ययप्रवाहीकरणं निदिध्यासनमित्यर्थः । व्युथाननिरोधसंस्कारयो- रभिभवप्रादुर्भावे सति चित्तस्यैकाग्रतापरिणामः समाधिः । स च द्विविध 1. CBha. 6. 14 , 2. 2. HK • omit visarga . * 3. Idena. 6. 1, 3. 4. ‘प्राक्षो CBG. 5. Idern. 6. 1. 4. 6. BCDGHL, insert उपपत्तिः here. 7. See Notes.