पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/७०

एतत् पृष्ठम् परिष्कृतम् अस्ति
५४
[खण्डः ३३
वेदान्तसारः

 अयं तु व्युत्थानसमये मांसशोणितमूत्रपुंरीषादिभाजनेन शरीरेणान्ध्यमान्द्यापटुत्वादिभाजनेनेन्द्रियग्रामेणाशनापिपा साशोकमोहादिभाजनेनान्तःकरणेन च पूर्वपूर्ववासनया क्रिय माणानि कर्माणि भुज्यमानानि ज्ञानाविरुद्धारब्धफलानि च पश्यन्नपि बाधितत्वात्परमार्थतो न पश्यति । यथेन्द्रजाल मिति ज्ञानवांस्तदिन्द्रजालं पश्यन्नपि परमार्थमिदमिति न पश्यति । "सचक्षुरचक्षुरिव सकर्णोऽकर्ण इव” इत्यादिश्रुतेः। उक्तं च

“सुषुप्तवज्जाग्रति यो न पश्यति
द्वयं च पश्यन्नपि चाद्वयत्वतः ।
तथा च कुर्वन्नपि निष्क्रियश्च यः
स आत्मविन्नान्य इतीह निश्चय” इति ॥ ३५ ॥


 नन्वेतादृशस्य जीवन्मुक्तस्य देहेन्द्रियादिभानमस्ति न वेत्याशङ्कय दग्धपट न्यायेनेन्द्रजालनिर्मितसौधसमुद्रादिवच्च बाधितानुवृत्या मिथ्यात्वेन भानेऽपि परमार्थतया भानं नेत्याह भयमित्यादिना न पश्यतीत्यन्तेन । अस्मिन्नर्थे श्रुति मह सच्चक्षुरिति । आचार्यवचनं प्रमाणयति उक्तं चेति । इह जगति स एवा त्मविन्नान्य इति मे निश्चय इत्यन्वयः । स क इत्यपेक्षायामाह य इति । यः कोऽपि महापुरुषो ब्रह्मात्मैकत्वंसाक्षात्कारेण निरस्तसमस्तभेदबुद्धिः सुषुप्ताव स्थायां यथा द्वैतं न पश्यति तथा

ब्रह्मदृष्टिदाढर्येन जाग्रदवस्थायामपि द्वैतं न

पश्यति तदृष्ट्या ब्रह्मव्यतिरिक्तजडपदार्थाभावात्स तथोक्तः । किञ्च कदाचिद्यु त्थानदशायामविद्यकसंस्कारलेशवशाद्भिक्षाटनादिव्यवहारेण द्वयं पश्यन्नपि समाध्यभ्याससामर्थ्यवशाद्वयत्वेन पश्यति स च तथोक्तः । यश्च लोक सङ्ग्रहार्थं नित्यादिकर्माणि कुर्वन्नप्यास्मनि कर्तृत्वाभावनिश्चयेन निष्क्रियः कर्मरहितो भवति कर्मफलेन न लिप्यते स जीवन्मुक्तो नात्र संशयः कर्तव्य इत्यर्थः ॥ ३५ ॥

1. So HKL.; the restए मौग्ध्य . 2. ‘द्धान्या° D. only. 3. Upd- desc»8 (x, 13). csdl.85 १. Maximns i (2nd edn.). २. °लेशवेशात् all but L.