पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/९६

एतत् पृष्ठम् परिष्कृतम् अस्ति

८२ वेदान्तसारटीका [ खण्डः ४ “सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ॥ इति, ‘मीत्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः । आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत” ॥ इति, ‘समाधावचला बुद्धिः•••••००००००००००००००० ॥ ‘‘मय्येव मन आधत्स्व मयि बुद्धिं निवेशय” ॥ इति, “श्रध्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः ” ॥ ‘अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति” ॥ इति च । - सुमुक्षुत्वेऽपि ‘मुमुक्षुर्वै शरणमहं प्रपद्ये” ॥, ‘ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः । तमेव चाद्य पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी” ॥ इति श्रुतिस्मृती द्रष्टव्ये । एवं विशेषणविशिष्टो वेदान्ताधिकारीति निरूपितेऽर्थेऽभियुक्तवचनमुदाहरति-उक्तं च-प्रशान्त इति । प्रशान्त चित्ताय शान्ताय। जितेन्द्रियाय दान्ताय । प्रहीणदोषाय नितान्तनिर्मल स्वान्ताय । यथोक्तकारिणे काम्यनिषिद्धवर्जनपुरःसरं नित्याद्यनुष्ठानलब्धे श्वरप्रीतये। गुणान्विताय विवेकवैराग्योपरतितितिक्षासमाधानयुक्ताय । सर्वदा गुरुमनुगताय श्रद्धालवे । एवंभूताय मुमुक्षव एतदात्मज्ञानं सततं गुरुणा देयमिति श्लोकार्थः । तदेवमधिकार्यानुबन्धो निरूपितः । इदानीं विषयानुबन्धं व्यपदिशति विषय इति । क्षीरनीरवत्परस्परविभिन्नयोः समानाभिहारस्यैक्यशब्दार्थ त्वाज्जीवब्रह्मणोरपि स्वरूपतो भिन्नयोरैक्यं मिश्रीभाव इति शङ्का स्यात्सा माभूदिति व्याचष्टे--युद्धचैतन्यमिति । चैतन्यस्य शुद्धत्वं सर्वधर्मातीतत्व- मेकरत्वम् । ननु कथं शुद्धचैतन्यस्य विचारविषयत्वं यावता प्रागपि विचा रात्तत्स्वप्रकाशं स्वयमेवावभासत इत्याशङ्कय स्वरूपेणावभासमानत्वेऽपि परि पूर्णसच्चिदानन्दप्रत्यक्स्वरूपतयाज्ञायमानत्वाद्विषयस्वोपपत्तिरित्यभिप्रेत्याह- प्रमेयमिति । प्रमेयत्वमज्ञातत्वम् । अयं भावः । ब्रह्मात्मवस्तुनो विषय- स्यात्यन्ताप्रसिद्धौ न विचारप्रवृत्तिः सम्भवत्युद्देश्यविषयाप्रसिद्धेः । तथा १. G. xviii. 66. २. Idem. ii. 14. ३. Idem. ii. 53. ४. dem, i. 8. ५. Ident, iv. 39. ६. Idea iv. 40. ७. Seek 6. 18८. Gita x Y» 4. ९. Marma ii (2nd. edn.).