पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१०३

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यक्तिविवेकै द्धितीयो विमर्शः । सङ्ग्रामामृतसागरप्रमथनक्रीडाविधौ मन्दरो। राजन् ! राजति वीरवैखिनितावैधव्यदस्ते भुजः ।।" इति । यथा च --- "अङ्गुलीभिरिव केशसञ्चयं सान्निगृहा तिमिरं मरीचिभिः । कुग्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ।" इति । अत्र हि चुम्बतीवेत्यत्रेवशब्दः पुनरुक्तः चुम्बतेऱमुख्यार्थबाधे सति तत्सद्द- शार्थप्रतीतेस्सामर्थ्यसिद्धत्वोपपादनादिति । एवं “स्मरहुताशनमुर्मुरचूर्णतां दधुरिबाम्रवणस्य रज कणाः । निपतिताः परितः पथिकत्रजानुपरि ते परितेपुरतो भृशम् ।।" इत्यत्रापि वेदितव्यम् । यथा च -- "तृप्तियोगः परेणापि न महिम्ना महीयसाम् ।। पूर्णश्चन्द्रोदयाकाङ्की दृष्टान्तोऽत्र महार्णवॱ ॥" अत्र हि प्रतिवस्त्वलङ्कारान्महार्णवमहीयसामुपमानोपमेयभावमवगम्यमानमवधीर्य यद् दृष्टान्तशब्देन पुनर्महार्णवस्योपमानत्ववचवं तत् पुनरुक्तम् । वाच्यो हार्थो न तथा स्वदते, यथा स एव प्रतीयमानः । अत एव ---- “सञ्चारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् । प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुॱ ॥” इत्यत्र प्रभाधेन्वोः ‘प्रभेव भानोॱ सुरभिर्महर्षे'रिति शब्दवाच्यामुपमामनादृत्य क- विना पूर्बवद् दीपकमुखेनोपमेयभावो भणितः । एवमलड़कारान्तरेप्वपि यथायोगम- वगन्तव्यम् । वाच्यात् प्रतीयमानोऽर्थस्तद्विदां स्वदतेऽधिकम् । रूपकादिरतः श्रेयानलङ्कारेषु नोपमा ।। ३९ ।। इति सङ्ग्रहशॢोकः । यथा च --- "शिशिरकालमपास्य गुणोऽस्य नः क इव शीतहरस्य कुचोष्मणः । इति धियास्तरुषः परिरेभिरे घनमतो नमतोऽनुमतान् प्रियाः ।।" इत्यत्र धीशब्दोऽत इति च हेत्वर्थः शब्दः पुनरुक्तौ, हेत्वथैनेतिनैव तदर्थस्यो- क्तत्वात् । यथा “अश्वेतिविद्रुतमनुद्रवतान्यमश्व'मिति । तेन वरम् ‘इति यतोऽस्त- रुष' इति युक्तः पाठः । यथा वा-