एतत् पृष्ठम् परिष्कृतम् अस्ति
व्यत्किविवेके द्वितीयो विमर्शः ।
"आः किमर्थमिदं चेतः सताम् म्भोधिदुर्मरम् । इति मत्वेव दुर्वेधाः परदु खैरपूरयत् ।।" इति । अत्र हि मननार्थः पुनरुत्क, इतिनैव कोधपरामशिना तस्यावगमितत्वात् । तेन ‘इति कुधेव तद्वेधा' इति युत्क: पाठः । एवञ्च बेधसो दुष्टत्वस्यानिबन्धनस्या- वाच्यस्य यद्वचनं तदपि परिहृतं भवति । अव्यभिचारिणः कारकस्याविशेषणः प्रयोगः पुनरुत्क: । तत्र कर्त्तुर्यथा – " पतितोत्पतितैः शत्रुशिरोभिः समराड्गणे । यः कन्दुकैरिवोच्चण्डः कीडन् लोकैर्व्यलोक्यत ।।” इत्यत्र लोकशब्दस्य, विलोकनकियायास्तत्कर्तृकत्वाव्यभिचारात् । सविशेषणस्य न तस्य पौनरुक्त्यम् । यथा — " जनैरजातम्खलनैर्न जातु द्वयेऽप्यमुच्यन्त विनीतमार्गाः ।।" इति । कर्मणो यथा— "उवाच दूतस्तमचोदितोऽपि गां । न हीङ्गितज्ञोऽवसरेऽवेसीदति ।” इति । सविशेषणस्य यथा-- ‘शुचिस्मितां वाचमवोचदच्युत' इति । करणस्य यथा— "यदा दृशा कृशाड्गयास्मि दृष्टो जातं तदैव मे । प्रजागरगरग्रस्तसमस्तप्रसरं मनः ।।" इति । अस्यैव सविशेषणस्य यथा— " तं विलोक्य सुरसुन्दरीजनो विस्मयस्तिमिततारया दृशा ।" इति । एवं कारकान्तरेष्वप्यवगन्तव्यम् । एकैवालड्कृतिर्यत्र शाब्दत्वार्थत्वभेदतः ।। द्विरुच्यते तां मन्यन्ते पुनरुत्किमतिस्फुटाम् ॥ ४० ॥ तद्यथा — “उमावृषाङ्कौ शरजन्मना यथा यथा जयन्तेन शचीपुरन्दरौ । तथा नृपः सा च सुतेन मागधी ननन्दतुस्तत्सदृशेन तत्समौ ||” इत्यत्र ।। यस्य यद्रूपताव्यत्कि: सामथ्यीदेव जायते ।। तस्योपमा रूपकं वा तदर्थं पौनरुक्त्यकृत् ।। ४१ ॥ तत्रोपमा यथा—
१.‘घु सीदति' इति खपुस्तके पाठ ,