पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१०५

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्याक्तिविवेके द्वितीयो विमर्श । " स्फुरदधीरतटिन्नयना मुहुः प्रियमिवागलितोरुपयोधरा । जलधरावलिरप्रतिपालितस्वसमया समयाज्जगतीधरम् ।। " अत्र जगतीधरजलधरावल्योः प्रियप्रणयिनीतुल्यत्वे समासोक्त्यैवावसिते सति यदे- तज्जगतीधरस्य प्रियतुल्यत्ववचनं तत् पुनरुक्तम् । यथात्रैवोत्तरेपु चोदाहरणेषु “निद्रावशेन भवता ह्यनवेक्षमाणा

पर्युत्सुकत्वमबला निशि खण्डितेव ।
लक्ष्मीर्विनोदयति येन दिगन्तलम्बी।
सोऽपि त्वदाननरुचिं विजहाति चन्द्रः ।। "

इति । अत्र हि लक्ष्म्या अबला खण्डितेवेति यदुपमानमुक्तं तत् पुनरुक्तं तस्या- स्तत्तुल्यवृत्तान्ताभिधानसामर्थ्यादेवानन्तरोक्तनयेन तदर्थावगतेः । यथा च - “सुरभिसङ्गमज वनमालया नवपलाशमधार्यत भड्गुरम् ।

रमणदत्तमिवार्द्रनखक्षतं प्रमदया मदयापितलज्जया ।”

इत्यत्रार्द्रनखक्षतविशेषणं, प्रमदार्थः, तद्विशेषणं चेति त्रितयमपि पुनरुक्त तदर्थ- स्योपमेयादेव प्रतीतेर्गतार्थत्वात् ! तथा हि । सुरभिशब्दात् पुंस्त्वविशिष्टाद्रमणा- र्थोऽवगम्यते वनमालाशब्दाच्ज स्त्रीत्वविशिष्टत्वात् कामिन्यर्थः । तद्विशेषणोपादानं तु व्यर्थमेव व्यावर्त्यभावात् । तेन यथा कामुकसङ्गमसमुत्थमङ्गनया लोहितं वक्रं च नखक्षतं धार्यते, तद्वद्वनमालया वसन्तसमागमजानितं नव भड्गुर च पलाशम- धार्यतेति समुदायादयमर्थः सचेतसामुन्मिषत्येव, यतोऽलङ्कारान्तरोपकृताल्लिङ्गबि- शेषनिर्देशादेवार्थानां स्त्रीपुंसत्वानुमितिरनुमतैव महाकवीनाम् । यथा च --- “ऐन्द्र धनुः पाण्डुपयोधरेण

शरद्दधानार्द्रनखक्षताभम् ।
प्रसादयन्ती सकलङ्कामिन्दुं
तापं रवेरभ्यधिकं चकार ।।"

इति । अत्र हि शरदो नायिकात्वस्येन्दो रवेश्च नायकप्रतिनायकत्वयोरभिव्यक्तिः । यथा वा--- " अत्यन्तपरिणाहित्वादत्यन्तश्लक्ष्णतावशात् ।

 न काचिदुपमारोढुमूरू शन्कोति सुभ्रुवः ॥”

इत्यत्राङ्गनेव मणिस्तम्भाविति । यथा च ---