पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१०६

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्याक्तिविवेके द्वितीयो त्रिमर्शः । “भोगोगिनेत्रपरिबर्तनविभ्रमेण मूर्त्या नितम्बवलनाकुलतां वहन्त्या ।। यस्थाशनैरविरलोत्कलिकाकलापः

पर्याकुलं हृदयसम्धुनिधेर्ममन्थे ।

इति । अत्र ह्यारोहार्थो हृदयार्थश्च लक्षणयोपात्तौ न मुख्यतया तयोर्जीवव्यापार- तत्कार्यैकदेशविशेषरूपत्वात् । लक्षणायाश्चालङ्कारान्तररवमुपपादितमेव । किञ्च- येदशैंकाश्रयो धर्मो यत्र स्यादधिरोपितः । उपमानोपमेयत्वं न तयोः शाब्दामप्यते ।। ४२ ॥ यथा --~-- "अपरागसमीरणेरितः क्रमशीर्णाकुलमूलसन्ततिः । तरुवत् सुकरः सहिष्णुना रिपुरुन्मूलयितुं महानपि ।। इत्यत्र तरुरिप्वोः । तद्धि सामर्थ्यादेव तयोः सिद्ध्यति, उन्मूलनस्य तरुधर्मस्य रिपावारोपितत्वात् । रूपक यथा--- "अनुरागवन्तमपि लोचनयोदधत वपुः सुखमतापकरम् । निरकासयद् रविमपेतवतुं वियदालयादपरदिग्गणिकां ।|” इति । अत्र हि लिङ्गविशेषनिर्देशात् स्त्रीत्वस्य कार्यतश्च तद्विशेषस्याभिव्यक्तौ सा- मयदेवापदिशो गणिकारूपत्वे वियतयालयत्वेऽवगते यत् तयस्तादून्यवचनं तत् पुनरुक्तम् । पुनस्तद्वचने वा रवैरपि कामुकरूपतीवचनप्रसङ्गः विशेषाभावात् । यदुक्तम् --- "उभयार्थपदनिबन्धो लिङ्गविशेषः पदञ्च गुणवृत्ति । उपमानविशेषाश्रयमर्थ गमयति सै न (हि)पुनर्वाच्यः ।| ” इति । यथा--- “राहुस्त्रीस्तनयोरकारि सहसा येनालथालिङ्गन- व्यापारैकविनोददुर्ललितयोः कार्कश्यलक्ष्मीवृथा । तेनाक्रोशत एव तस्य मुराजेत् तत्काललोलानल- ज्वालापल्लवितेन मूर्धविकलं चक्रेण चक्रे वपुः ॥” । इति । अत्र ह्यनुप्रासैकरासकेन कविना पौनरुक्त्यदोषमपश्यता पर्यायोक्त्यनुमितो- ऽपि चक्रशब्दार्थः प्रयुक्तः । तेन ‘मूर्धविकलामस्त्रेण तेने तनु'मिति युक्तः पाठः । | १ ‘यदेका” इति खपुस्तके पाठ , २ ‘सुकरस्तरुवद्” इति खपुस्तके पाठ , ३ ‘नस इति खपुस्तके पाठ ,