एतत् पृष्ठम् परिष्कृतम् अस्ति
व्यक्तिविवेके व्दितीयो विमर्शः ।
दोषद्वयमिदं प्रायः समासविषयं मतम् । यतोऽवकरभूयिष्ठा लक्षणैकपरायणैः ।। ६० ।। कृताः प्रतीतिविमुखैर्हश्यन्तेऽनेकधा हि ते । समासमत एवाहुः कवीनां निकष परम् ।। ६१ ॥ वृत्तावितरथा चोत्के नान्यभाजि विशेपणे । विशेषोक्तिरयुक्तैद स्यात् तदव्यभिचारतः ।। ६२ । यो यदात्मा तदुक्त्यैव तत्प्यार्थरय गतिर्यतॱ। तेन प्रयोजनाभावे द्वयोक्तिः पुनरुक्तिकृत् ।। ६३ ।। यो यस्य नियतो धर्मस्तस्य तेनं न धार्मिणा । समासः शस्यतेऽन्यार्थस्तत एव हि तद्गतेः ।। ६४ ॥ ऋियाप्रतीतिः करणप्रत्ययाव्यभिचारिणी । तदप्रतीतौ तादात्म्यात् सैवालयसिता भवेत् ।। ६५ ॥ तदेतत् त्योगपाकादौ क्रिययुक्तेर्निबन्धनम् । तयक्तिर्यशाद्यस्य तदुक्तौ नादढीत तत् ।। ६६ ।। प्रयुक्ते चाप्रयुक्ते च यस्मिन्नर्थगातिः समा । न तत् पदमुपादेय कविनावकरो हि सः ।। ६७ ॥ अन्योन्याक्षेपकत्वे सत्यन्वयव्यतिरेकयो । उभयोरुक्तिरेकस्य नात्येति पुनरुक्तताम् ॥ ६८ ।। पुनरुक्तिप्रकाराणामिति दिड्नात । विवेक्तुं को हि कात्स्न्येन शन्कोत्यवकरोत्करम् ।। ६९ ॥
इति सङ्ग्रहश्लोकाः । वाच्यत्यावचनं यथा--
“कनकनिकषस्निग्धा विध्युत् प्रिया न ममोर्वशी ।”
इति । अत्र हि भ्रान्तौ निवृत्तायां तद्विषयभूतयो. सुरधनुर्धारासारयोरिव विद्युतोऽपी- दमा परामर्शे वाच्ये यत् तस्यावचनं स वाच्यावचनं दोषः । यथा च-
“कमलमनम्भसि कमले कुवलये तानि कनकलातकायाम् ।। सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ।”
अत्र हि द्वितीयः कमलार्थः सर्वनामवाच्यः । तम्य यत् स्वशब्देन वचनं स वाच्या- वचनं दोषः । तेनात्र ‘तस्मिश्च कुवलये' इति युक्तः पाठः । --------------------------------------------------------
१. 'नेतर' इति खपुस्तके पाठः । २ ‘याग' इति खपुस्तके पाठ ।