पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/११५

एतत् पृष्ठम् परिष्कृतम् अस्ति

Patna Listal 1

(Avaliers are related or

व्यक्तिविवेके द्वितीय विमर्शः । सर्वनामपरामर्शविषये योऽर्थवम्तुनि । स्वशब्दवाच्यतादोपः स वाच्यावचनाभिधः ॥ ७० ॥ इति सङ्ग्रहश्लोकः । ‘द्वयं गतं सम्प्रति शोचनीयतां समागमप्रार्थनया कपालिन' इति । अत्र हि कपालिशब्दो धार्मिधरर्माभियाव्रुत्तिः संग्निमात्रं वा प्रत्याययेत्, कपालसम्बन्धकृतं वा गर्हितत्वम् . उभयमपि वेति त्रयः पक्षाः । तत्र प्रथम पक्षे विशे- षप्रतिपत्तये कपालिग्रहणमपरमपि कर्तव्यं येनाम्य गर्हितत्वं प्रतीयेत । द्वितीये पक्षे तस्याश्रयप्रतिपत्तये तेनैव तत्पर्यायेण सर्वनाम्ना वा विशेप्यमवश्यमुपादेयं भवति येन तस्य विवक्षिनार्थसिद्धावार्थो हेतुभावोऽवकल्प्येत । तत्र तेनैवोपा- दाने यथा---

  • सततमनङ्गोऽनङ्गो न वेत्ति परदेहदाहदुःखमहो ।

यदयमदयं दहति मामनलशरो ध्रुवमसौ न कुसुमशरः ।। इति । पर्यायेणोपादाने यथा- “कुर्या हरस्यापि पिनाकपाणेधैर्यच्युति के मम धन्विनोऽन्ये ।" इति । अत्र हरस्येति पर्यायशब्देनोपात्तम्यार्थस्य पिनाकपाणित्व धैर्यच्युतेरशक्यक- रणीयतायामार्थो हेतुः अन्यथा हरग्रहणम्य पौनरुक्त्यं स्यादिति । यथा च ‘एकः शङ्कामहिपतिरिपोरत्यजद्वैनतेयादिति । सर्वनाम्ना यथा--

  • दृशा दग्धं मनासिजं जीवयन्ति दृशैव याः ।।

| विरूपाक्षस्य जयिनीस्ता स्तुमो वामलोचनाः ।। इति ।अत्रापि सर्वनाम्नोपात्तस्यार्थस्य वामलोचनात्वं मनसिजदाहजीवनयोरन्योन्यवि- भिन्नयोरप्यभिन्नहेतुकत्वोपपत्तावार्थो हेतुः इतरथा बामलोचनात्वस्य पुनरुपादानप्र- सङ्गः । अत एव तृतीयः पक्षो न सम्भवत्येव एकस्यैव शब्दस्यावृत्तिमन्तरेणाने कार्थप्रतिपादनसामर्थाभावात् । न चासावनिबन्धना शक्या कल्पयितुमिति वक्ष्यते । न चात्र किञ्चिन्निबन्धनमुक्तमिति तस्य वाच्यम्यावचनं दोषः । तेन वरमयमत्र पाठः श्रेयान् अल्पदोषत्वात् ‘द्वयं गतं सम्प्रति तस्य शोच्यतां समागमाप्रर्थनया कपालिनः' इति ।। अर्थभेदाद्विभिन्नेऽपि शब्दे सादृश्यमात्रजः ।। आवृत्तिव्यवहारोऽय मूलमस्यैकताभ्रमः ॥ ७१ ॥ अतश्च - १ ‘द्वितीयेऽपि' इति खपुस्तके पाठ । २ ‘कुल' इति खपुस्तके पाठः । - -