पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/११६

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यक्तिविवेके द्वितीयो बिगर्शाह। तत्पर्यायेण तेनैव सर्वनाश्ना विनिर्दिशेत् । आर्थहेतुत्वनिप्पत्तौ धर्मिधर्मो :यात्मकम् ।। ७२ ।। इत्यन्तश्लोकौ । यत्रान्यत्यालङ्कारस्य विपयेऽलङ्कारान्तरनिबन्धत्सोऽपि वाच्याव- चनं दोषः । तत्र समासोक्तिविषये श्लेषस्ययोपरबन्यो यथा -- "अलकालिकुलाकीमारक्तच्छदसुन्दरम् ।

आमोदिकर्णिकाकान्तं भवति तेऽव्जमिवाननम् ।।"

अत्र ह्यब्ञसमुचितविशेषणोपादानसामथ्र्याक्षस-याब्जयोपमानभावावगमः समा- सोक्तेरेव विषयो युक्तो न श्लेषरय, तत्रैव तस्यानुनीयमानतथा सचेतनचमत्कारका- रित्वोपपत्तेः, श्लेषे तु तस्य वाच्यतया तद्विपरीतत्वादियुक्तम् । यथा च- "बंहीयांसो गरीयांसः रथवीयांसो गुणास्व । गुणा इव निबन्नान्ति कम्य नाम न मानराम् ।।" इति । अत्र हि मुख्यवृत्त्या निबन्धोऽप्ररतुतरज्जाद्विगुकफर्यह शौर्यादिषु गुणे- प्यारोपितस्तेषां सामर्थ्यादेव तत्साम्यमवगमयतीययमपि समासोक्तरेव विषयो युक्तो न श्लेषस्य । न हि विशेषणताम्यमेवैकमप्रस्तुतार्थावगतिहेतु , ययाः-- “प्रकृतार्थेन वाक्येन तत्समानैर्विशेषणैः ।

अप्ररतुतार्थकथनं समारोक्तिरुदाहृता ।।”

इति, किं तर्हि तत्कार्य समारोपोऽनीति गुणा इत्यादयमेव । श्लेत्य विषये उपमाया यथा--- "भैरवाचार्यस्तु दूरादेव दृष्ट्वा राजानम् शशिनमिव जलनिश्चिचाल" इति अत्र हि राजशब्द एवोभयार्थत्वाच्छशिनमाहेति श्लेषस्यायम् विषयो युक्तः । यदत्र पृथक् तमुपादाय राजशशिनोरुपमानोपमेयभावोपनिबन्धः सोऽपि वाच्यावचनम् दोषः । स ह्यार्थ एव तद्विदामधिकं स्वदते न शाब्द इत्युक्तम् । एवं | " तदन्वये शुद्धिमति प्रसूत शुद्धिमत्तरः । दिलीप इति राजेन्दुरिन्दु. क्षीरनिवाविव |।" इत्यत्रापि द्रष्टव्यम् । अत्र हि श्लेवाविषये रूपकमासुत्रित्तमनादृत्योपमानुरागिणी क- विना सैवोपनिबद्धा । न चासौ ताभ्यां स्पर्धितुमुत्सहते तयोर्यथापूर्व प्रतीयमाना- र्थसंस्पर्शतिरेकात् तदनुविधायिनः सहृदयैकसवेद्यय नकारातिरेकय सम्भवा- दिति तस्य वाच्यत्यावचनं दोषः । रूपकस्य विषये उपमाया यथा- १. ‘च चम' इति खपुस्तके पाठ ।