पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/११९

एतत् पृष्ठम् परिष्कृतम् अस्ति

arthy latestra == (dwalisa A kires-larl series व्याक्तविवेके द्वितीय विमर्शः ।। सकृत्पयुक्तोऽयं गिरीशशब्द एवोभयार्थत्वाच्छेतो धावतीतिवद्यथायोगं प्रदीपवत् तन्त्रेण प्रसङ्गेन वार्थान्तरप्रतीतिनिवन्धनमिति शक्यते वक्तुं, तयो प्रतिपत्तृपरा- मर्शानपेक्षप्रदीपाद्यपरपदाअर्थविषयत्वेन प्रवृत्तिदर्शनात् , न शब्दविषयत्वेन । शब्दो हि प्रतिपत्तृपरामर्शमन्तरेण नार्थान्तरे प्रतीतिमाधातुमल, परामर्शश्च निर्निबन्धनो न भवितुमर्हति अतिप्रसङ्गात् , निबन्धन चात्र न किञ्चिदुपकल्पत इति व्यर्थः श्लिष्टार्थश्ब्दान्वेषणप्रयासः कवे. । यथा च ----- " विदधत. पथिकक्षपणं प्रति स्मृतिभुवो निजशक्त्युपवृहणम् । दधुरहार्यभटा' सहकारितामनवमा नवमाधवसाङ्गिन. ।।" अत्र हि सहकारिशब्देन सहकर्तुशीलत्व सहकारसम्बन्धश्चेत्युभयोऽर्थ. श्लैषण विवक्षितः । तत्र रम्यतातिरेकलक्षण एक एव ततः प्रतीयते नापरो निबन्धना- भावादिति तस्य वाच्यम्यावचनं दोषः ।। एकोऽनेकार्थकृद्यत्र स्वभावेनैव दीपवत् ।। समयस्मृत्यनाकाङ्क्षस्तन्त्रस्य विषयो हि सः ।। ८५ ।। शब्दे त्वसिद्धमेकत्वं प्रत्यर्थं तम्य भेदतः । सादृश्यविप्रलब्धम्नु लोकस्तत्त्वमवस्यति ।। ८६ ।।। नैतावतावगन्तव्या तम्यानेकार्थवृत्तिता ।। नात एव प्रसङ्गम्य पद शब्दोऽवकल्पते ॥ ८७ || न चानिबन्धना युक्ता शब्दार्थान्तरे मति । तच्चानेकाविधं प्रोक्तमव्ययानव्ययात्मकम् ॥ ८८ ॥ तस्मादर्थान्तरव्याक्त्तिहेतौ कम्मिश्चनासति । यः श्लेषबन्धनिर्बन्धः क्लेशायैव कवेरसौ ।। ८९ ॥ इति सङ्ग्रहश्लोकाः । धर्मार्थस्य यथा- " प्रकटकुलिशकुन्तचक्रभास्वत्परवलभीहितमत्तवारणाङ्का ।। दिशिदिशि ददृशे निशान्तपङ्किः समरावमर्दभुवं विडम्बयन्ती ।।' अत्र व्यतिरेकालङ्कारनिबन्धना श्लेषाभिव्यक्तिः । यथा च---- " उषसि विगलितान्धकारपङ्कप्लवशबल घनवर्त्म दूरमासीत् ।। मधुरतरणितापयोगतारं कमलवने मधुपायिनां च पाङ्क्त्ति ॥ इति । अत्र चशब्दः श्लेषाभिव्यक्तिहेतु. । केचित् पुनः धर्भिधर्मोमर्यार्थस्यापि | १ श्पारतल्या” इति खपुस्तके पाठ ,