पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१२०

एतत् पृष्ठम् परिष्कृतम् अस्ति

25yer19t-1 [LagarLF - Fula aaslrran. ब्याकविवेकै द्वितीय विमः ।। शब्दस्य श्लेषामिच्छन्ति, यथा--- •"अनवरतनयनसलिलसिच्यमानस्ताररिव विपल्लवोऽपि सहस्रवा प्ररोहति" इत्यत्र विपल्लवशब्दस्य । तच्चायुक्तं यतो विपल्लवशब्दस्य धर्मिधर्मोभयार्थत्वेऽपि न धर्मार्थत्वमुपमानस्य विशेषणभावमुपगन्तुमुत्सहते, तस्योपमेयाभिधाने चरितार्थ- स्यावृत्तेरनुपपत्तेस्तत्स्पापहारप्रसङ्गात् । यः पुनरप्रधानमेवार्थमभिधत्ते न प्रधा- नमसावृपयुक्तार्थोऽपि निबन्धनसद्भावे सत्यावर्त्तत एव । यथा- “सानुत्थितिजनकराजसुतेव भास्वदोल्लपलॢवतया श्रियमेति यस्य ।” इत्यत्र भास्वदोल्लयल्लवताशब्दः । इह पुनर्द्विरुपादानमेवैकमुपमानसम्बन्धबुद्धिनि- बन्धनमवसेय न चेदिवाद्यव्ययमनव्ययमलङ्कारान्तर वा किञ्चित् । यत्र च प्रधा- नार्थसंस्पर्शमात्रादेवेामयर्थम्य शब्दस्य द्विरुपादानमवश्यं कार्यं तत्र तदेकार्थस्य तत् स्थितमेव । यथा -- “व्रध्द्धा रुचिवो रुचिरिव रुचितस्याप्तये वस्तुनोऽस्तु ।' इति । यथा च-- “खलतां खलतामिवासती प्रतिपद्येत कथ बुधो जनः । इति । न चावृत्तिनिबन्धनमिबशब्दोऽत्र प्रयुक्त एवेति कुतः प्रधानार्थस- स्पर्शवशाद्विपल्लवशब्दस्य द्विरुपादानप्रसङ्ग इति शक्यते वक्तुं तस्य तरु- विपल्लवयोरुपमानोपमेयभावद्योतनमात्रचरितार्थस्य तयोर्विशेषणविशेष्यभावाभिधा- नसामथ्याभावात् । अथ विपल्लवशब्दस्य तरुविशेषणभावोपगमयोग्यार्थान्तरसम्भवे तम्य तरुणा सामानाधिकरण्ये सत्याकाङ्कासन्निधियोग्यतावशात् तयोर्विशेषणविशे- प्यभावोऽवगम्यत इति चेत् तत्र वाक्यप्रभेदप्रसङ्गात् ‘विपल्लवस्तरुरिव स च तरुर्विपल्लव” इति । अथ समासोक्तिवशादुक्तनयेन तयोः सम्बन्धावगतिरिति । तद्- युक्तम् । तस्या उपमानभूतधर्भमित्रप्रतीतिसामथ्र्योपगमात् । इह तु तरुरिवेति तदुपातमेवेति व्यर्थ एवायमनेकार्थपदोपादानप्रयासः कवेः । तस्मात् सलिलासच्य- मानत्वसहस्रधाप्ररोहादिसमानधर्मापेक्षयैवात्र तरुविपल्लवयोरुपमानोपमेयभावोऽवग- न्तव्यः, न तु श्लेषः । स हि भ्रान्तिमात्रकृतः । यथा च --- “क्वचित् तरुतलविवरवर्त्तिनो बभ्रवः क्वचित् स्वछन्द- चारिणों हरिणाः क्वचिज्जटावल्कलावलम्बिनः कापिला इति । एवमर्थश्लेषेऽप्यवगन्तव्यम् । यथा ---