पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१२२

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्याक्तिविवेके द्वितीयो विमर्शः । विभक्तविशेषयोगे यथा ---- "सरसमन्थरतामरसोदरभ्रमरसज्जलया नलिनी मधौ ।। जलधिदेवतया सदृशी श्रियं स्फुटतरागतरागरुचिं दधौ।।" इत्यत्र सादृश्यमनव्ययमावृत्तिनिबन्धनम् । न्यूनातिरिक्तप्रतिषेधश्चास्य प्रधानविशे- फ्णसाम्यप्रतिपत्त्यर्थः । तेन यत्र तन्न सम्भवति स दुष्ट एव श्र्लेष इत्यवसेयम् । तत्र न्यूनत्वं यथा- "इह चटुलतया विलोचनौधैः स्फुटशितितारकाविभ्रमैस्तरुण्यः । दधति मधुकरैश्च कोरकान्तस्थितिरमणीयतरैः श्रियं नाळन्यः ।।" इति । अत्र मधुकरपक्षे न्यूनत्वम् । अतिरिक्तत्वं यथा--- "दिशि दिाशि विहगास्तनुस्समन्तादनलसपक्षतयोपचीयमानाः ।। उषसि जिगमिषाकुलास्तदानी दयितवियोगदशा वधूश्च देहुः ।।" इति । अत्र दयितवियोगदशापक्षेऽतिरिक्तत्वम् । अव्ययमावृत्तिहेतुः । किञ्चात्र शब्द- श्र्लेषे न कर्तृकर्मादिप्रधानार्थपदोपनिबन्धेन शब्दसादृश्यमुपकल्पनीयं प्रधानस्वरू- पापहारप्रसङ्गात् । तत्र कर्तु. स्वरूपापहारो यथा - "इह विबुधगजस्य कर्ण नाळस्खलनसमरिविधूतकुम्भधातोः । वहति मदनदीपरागरक्ता रतिगृहभित्तिरिव श्रियं परार्घ्याम् ॥" इति । यथा च---- "सङ्ग्रामनाटककुतूहलिनां तढानीमुत्थापनेन दधतो मुदभुत्तमानाम् ।। विस्पष्टभाण्डरुचयोऽतिविचित्ररूपां लक्ष्मी दधुर्जवनिकामेहितास्तुरङ्गाः ।।" इति । एवम् । "अवन्घ्यकोपम्य विहन्तुरापढं भवन्ति वश्याः स्वयमेव देहिनः ।। अमर्षशून्येन जनम्य जन्तुना न जातहार्देन न विद्विषादर. ।।" इत्यादावपि द्रष्टव्यम् । अत्र हि ‘न विद्विषी भी. सुहृदा चे नादरः' इति युक्तः पाठः । कर्मणो यथा ---- " कुं ताळीभिर्युघमिव गहनामेतामासाद्योच्चौश्शितशरशतसङ्कीर्णाः ।। अस्मिन् नानाफलकबलनससक्ता वल्गन्येते दिशि दिशि हरिसैन्यौघाः ॥” इति । कियाया यथा- " कुसुमैः कृतवासनः समन्तादपनिद्रत्वमुपेयिवद्भिरास्मन् । श्रुतिमन्त्रगणाभिरामरूपैर्न ववौ षट्पदशोभिाभः समीरः ।।" • मदनदीरूपस्य कर्त्तु: स्वरूपमिहापहृतम् . १. ‘विधुता' इति खपुस्तके पाठः,

  • कर्त्ता तुरङ्गपदार्थो रङ्गपदार्थाश्र्च,