एतत् पृष्ठम् परिष्कृतम् अस्ति
९८ व्यक्तिविवेके द्वितीयो विमर्शः ।
" स्पष्टोच्छ्सत्किरणकेसरसूर्यबिम्वविस्तीर्णकार्णकमथो दिवसारविन्दम् । श्लिष्टाष्टदिग्दलकलापमुषावतारबद्धान्धकारमधुपावाल सञ्चुकोच ॥” इत्यादौ केसरादे पदानामभिसम्वन्धस्यान्यथाभावमात्रतः ।। यत्रानिष्टप्रतीतिः स्याद् रचनां तां परित्यजेत् ।। ९६ ॥ यथा -- “तव कण्ठासृजासिक्ता करवाललता द्विषाम् ।। प्रसूते समरारण्ये यश कुलुमसम्पदम् ।।" इति । अत्र हि चाटुके युष्मदर्थस्य द्विषदर्थस्य च पौर्वापर्यविपर्यये समासे वा वाच्ये यत् तयोरवचन तदेवानिष्टार्थप्रातिपातिमूलमिति दोषतयावगन्तव्यम् । यथा च ----- "मधुश्च त मन्मथ ! साहचर्यादसावनुक्तोऽपि सहाय एव । समीरण, प्रेरविता भवेति व्यादिश्यते केन हुताशनस्य ॥" इति । अत एव येन यस्याभिसम्बन्धो दूरस्थेनापि तेन स. । पदानार्मसमासानामानन्तर्यसकारणम् ।। ९७ ।। इति ऱ्पतीत्योर्वैचिञ्यमनालोच्यैव चर्चितम् ।। गुणदोषमपश्यद्भिर्दूरादूरोत्थयोस्तयोः ।। ९८ ॥ स्वरूपेऽवस्थितिर्येषां शब्दानामितिनेष्यते ।। न तानन्यव्यवहितान् प्रयुञ्जीत विचक्षणः ॥ ९९ ।। इति सङ्ग्रहश्लोकाः । तेन " द्विषत्कण्ठासृजासिक्ता त्वत्कृपाणलतावरा ।” इत्येकत्र युक्तः पाठः, अपरत्रव्यादिश्यते केन समीरणो वा हविर्भुजश्चोदयिता भवेति । अनन्वयोऽप्यभ्यूह्यार्थत्वाद्रसभङ्गहेतुरिति सोऽपि वाच्यावचनं दोषः । यथा --- “निर्धातोऱ्गैः कुञ्जलीनान् जिघांसुज्र्यानिधेषैः क्षोभयामास सिंहान् । नूनं तेषामभ्यसूयापरोऽसौ बीर्योदये राजशब्दे मृगाणाम् ।।” इति । अत्र हि सिंहाना तावन्न राजशब्दसम्बन्धः सम्भवति तेषां तद्वाच्यत्वाभा- वात् तत्सम्बन्धाभावाच्च । तत्पार्यायस्य मृगराजशब्दस्य सन्नप्यसावनुपयुक्त एव
१ ‘मसमस्ता' इति खपुस्तके पाठ .